SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 10 २२२] [पाण्डवचरित्रमहाकाव्यम् । विदुरं प्रति दुर्योधनस्य कथनम् ॥ द्यूतक्रीडामहं वेद्मि न पुनस्तपसः सुतः । तया हरामि तल्लक्ष्मीमनुजानाति चेद्भवान् ॥२१८।। धार्तराष्ट्रोऽब्रवीत्तात ! त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपायामिमां मातुलभारतीम् ॥२१९॥ ऊचे नृपतिराहूय विदुरं गजसाह्वयात् । तस्यालोचेन निश्चेष्ये स्थितो यस्थास्मि शासने ॥२२०॥ खिन्नः सुयोधनोऽप्याह त्वं चेदालोचयिष्यसि । न दास्यति मतं तेऽसौ ततो मृत्युर्मम ध्रुवम् ॥२२१॥ मृते च मयि राजेन्द्र ! विदुरेण सुखी भव । उभावपि समेतौ च भुञ्जीयाथां महीमिमाम् ॥२२२॥ उन्नमय्य मुखं स्नेहात्पाणिना शिरसि स्पृशन् । अथ रुष्टमभाषिष्ट धृतराष्ट्रस्तनूद्भवम् ॥२२३॥ लक्ष्मीस्ते हास्तिकप्राज्या स्वाराज्यस्यापि जित्वरी । धर्मात्मजन्मनो लक्ष्म्याः किञ्चनापि न हीयते ॥२२४॥ अथाद्भुता सभा तादृङ् मम नास्तीति खिद्यसे । मा खिद्यस्व तथा कुर्वे यथा स्याः पूर्णवाञ्छितः ॥२२५।। तनूजं सान्त्वयित्वेति धृतराष्ट्रोऽतिशायिनीम् । सभां निर्मातुमादिक्षत्तत्क्षणं स्थपतीश्वरान् ॥२२६।। निर्ममे तैस्तपःसूनुसभासब्रह्मचारिणी । शतद्वारा मणिस्तम्भसहस्रसुभगा सभा ॥२२७।। सर्वसन्देहसन्दोहभिधुरं विदुरं ततः । आप्तैराकारयामास भूपतिर्हस्तिनापुरात् ॥२२८॥ आगत्य प्रणयप्रह्वः प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविक्षत्प्राञ्जलिर्विदुरः पुरः ॥२२९॥ सुत-सौबलयोः सर्वं कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य तमालोचमचीकथत् ॥२३०॥ 15 25 १. तं, प्रतिद्वये।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy