SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । दुर्योधनस्य लोभान्धता ॥] [२२१ यथा तस्यां सभायां तैः पाञ्चालीसचिवैः कृतः । प्रहासो बाधते तं च मातुलः कथयिष्यति ॥२०५।। युग्मम् । अथाख्यद्धृतराष्ट्राय मूलतः सौबलस्तदा । यथा यथा हसन्ति स्म पाण्डवेयाः सुयोधनम् ॥२०६।। दुर्योधनोऽभ्यधाद्भूयः कृष्णया सममाददे । सम्पदं यदि तेषां तत्तात ! जीवामि नान्यथा ॥२०७॥ किं गण्यते स जीवन ? यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ? ॥२०८॥ खञ्जिताङ्ग्रेर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मूगारातेर्न करिभ्यः पराभवः ॥२०९॥ इति व्याहरति क्रोधात्तस्मिन्नामलीमसे । धृतराष्ट्र: पुनर्वाचमुवाच गरिमोचिताम् ॥२१०॥ पाण्डवेयैः सहास्माकं शस्त्राशस्त्रिकथामपि । कुर्वतां खर्वति क्षिप्रं कीर्तिर्लज्जा तु दीर्घति ॥२११॥ सवंश्यैः समरारम्भनूतनाम्भोदवारिभिः ।। करोषि कुरुवंशेऽस्मिन्कि कलङ्कनवाङ्कुरम् ? ॥२१२॥ वर्षीयानपि भूपालः पुत्रवात्सल्यपिच्छिलः । नूनं जातस्तनूजानां यच्छिनत्ति न मत्सरम् ॥२१३।। इति विश्वेऽपि किं विश्वे परीवादं ददासि मे । तदेतस्मादपस्माराद्विनिवर्तितुमर्हसि ॥२१४॥ युग्मम् । सर्वैरप्यात्मनो मा गाः सहायैस्त्वमहंयुताम् । नयेयुः पाण्डवेया हि वीरलक्षानपि क्षयम् ॥२१५॥ इति भाषिणि भूमीन्द्रौ जगाद शकनिः शनैः । एकमौपायिकं वेद्मि स्वीकारे पाण्डवश्रियः ॥२१६॥ पतन्ति पत्रिणो यस्मिन्नाङ्गे कस्यापि सङ्गरे । अकीर्तिश्च न विस्फूर्तिमियति जगति क्वचित् ॥२१७॥ १. अतिवृद्धः । २. पुत्रवात्सल्येन पिच्छिल:-अम्लकांजीसदृशः मूढ इति यावत् । ३. 'वत्सलः' प्रत्यन्तर । ४. गविष्ठताम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy