________________
5
10
15
20
25
२२०]
[ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य उपदेश: ॥
नमन्नृपतिकोटीरमणीनामपि दुर्धराः । सहन्ते न महस्तस्य पादाम्भोजरजःकणाः ॥१९२॥ हर्म्याङ्गणे नृपास्तस्य मण्डलीबन्धशालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते प्रस्तुतान्योऽन्यसङ्कथाः ॥१९३॥ भूपालोपायनायातैर्गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दाननिर्जितैरिव नीरदैः ॥ १९४॥ तत्तुरङ्गखुरोत्खातैः पांशुभिस्तलिनाऽवनिः । बभूव भूभृतोऽप्यासन्नत्युच्चाः शृङ्गसङ्गिभिः ॥ १९५ ॥ तद्वेश्मन्युपदारत्नकूटकान्तितिरोहितः । लक्ष्यतेऽभ्युदितोऽप्यर्कः सभाकमलिनीस्मितैः ॥१९६॥ तदेतत्तात ! निःशेषं पश्यतस्तस्य मन्दिरे । द्विधेव हृदयं मेऽभूद्विदलत्सन्धिबन्धनम् ॥१९७॥ अथाभ्यधत्त संरम्भाद्धृतराष्ट्रः सुयोधनम् । धिग्वत्स ! मत्सरः कोऽयमस्थाने ते गरीयसः ? ॥१९८॥ लक्ष्मीरसंस्तुतानामप्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्वशालिनां कुलजन्मनाम् ? ॥१९९॥ वेलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य सङ्कोचमन्दमिन्दीवरं पुनः ॥ २०० ॥ ममैवेति तपः सूनोः किं न चिन्तयसि श्रियः ? | प्रथन्ते मन्मथस्यैव वसन्तस्य हि सम्पदः ? ॥ २०१ ॥ नन्वात्मनीन एवायमात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ? ॥ २०२ ॥ तदानन्दपदे वत्स ! विषादस्ते न साम्प्रतम् । कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ? ॥ २०३ ॥ इत्यूचिवांसमाह स्म धराधीशं सुयोधनः । न तथा बाधते तात ! तल्लक्ष्मीर्मामनुत्तरा ॥२०४॥
१. कृशा । २. उज्ज्वलम् ।