________________
षष्ठः सर्गः । धृतराष्ट्रेण कृतो दुर्योधनस्योपदेशः ॥]
[२१९ तव सौधं विनिर्धूतविमानं मानवेश्वर ! । अश्नासि च यथा स्वादु स्वैरं परिदधासि च ॥१७९॥ तदित्यालोचयन् खेदनिदानं ते न वेम्यहम् । अन्यत्किमपि चेत्कथ्यं कथ्यतां वत्स ! तन्मम ॥१८०॥ व्याजहाराथ नीहारस्पृष्टपङ्केरुहाननः । मन्युसम्भारसोत्कम्पवपुरुच्चैः सुयोधनः ॥१८१॥ तात ! यत्सत्यमस्त्येव श्रीर्ममेयमनुत्तरा । शश्वन्मनसि वास्तव्या यस्य त्वत्पादपांसवः ॥१८२॥ तृणाय सर्वमप्येतत्कि तु मन्येऽहमात्मनः । झलज्झलायितां दृष्ट्वा तपस्तनयसम्पदम् ॥१८३॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥१८४॥ किंश्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥१८५॥ चित्ररूपाऽपि मे सम्पत्सर्ववर्णमनोरमा । चण्डैः पाण्डुसुतौन्नत्यधूमैामलिताऽधुना ॥१८६॥ क्षीयेऽहमसिते पक्षे यामिनीकामिनीशवत् । विरोधिनस्तु वर्धन्ते तमस्तोमा इवान्वहम् ॥१८७॥ हेमन्तहिमसम्भारे स्फारीभवति वैरिणि । भाति मेऽर्कोऽपि निर्लज्जो निस्तेजाः स्वं प्रकाशयन् ॥१८८॥ 20 स्तुमो जलधिमेवैकमशेषितजलाशयम् । वल्गत्यपि रिपौ ग्रीष्मे यस्याभ्युन्नतिरीदृशी ॥१८९॥ नानारत्नप्रभाजालदत्तसन्ध्याभ्रविभ्रमाम् । संसदं तां तपःसूनोर्वासवोऽप्यभिलाषुकः ॥१९०॥ ध्यायन्ति हृदये नित्यं विस्मृताशेषदेवताः ।। परब्रह्मेव भूपालास्तस्याज्ञामेव केवलम् ॥१९१।।
१. 'शूरसमरे' प्रतिद्वयपाठो न साधुः । २. चन्द्रवत् । ३. दैवते इत्येकप्रतिपाठोऽपि साधुः।
25