________________
[पाण
10
२१८] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य धृतराष्ट्रसमीपे गमनम् ॥
इत्यन्योऽन्यकृतालोचसूत्रितोपायनिर्णयौ । शकुनिर्धार्तराष्ट्रश्च ताविन्द्रप्रस्थमीयतुः ॥१६६॥ प्रविश्य सहसा तत्र धृतराष्ट्रमहीपतिम् ।। न्यञ्चत्पञ्चाङ्गमानम्य तावुपाविशतां पुरः ॥१६७॥ मुखकूलङ्कषोत्तालनिःश्वासलहरीमुचम् । दुर्योधनं प्रियं पुत्रं धरित्रीपतिरब्रवीत् ॥१६८॥ वत्स ! वल्गन्ति निःश्वासा दीर्घदीर्घाः किमद्य ते ? । प्रस्तुतस्तत्र केनापि किं तवापि पराभवः ? ॥१६९।। जातवेदसि को दातुं झम्पासम्पातमीहते ? । आच्छेत्तुमिच्छति स्वैरं कः फणीन्द्रफणामणिम् ? ॥१७०।। ततः शकुनिरह्नाय महीपतिमवोचत । राजन् ! सुतं तवेन्द्रोऽपि पराभवितुमप्रभुः ॥१७१॥ अन्यत्किमपि तद्दुःखमस्त्यन्तस्तनयस्य ते । येनैष म्लानिमानिन्ये तरुवत्कोटराग्निना ॥१७२।। उवाच भूपतिर्वाचं चिन्ताचान्तमनाः पुनः । चिन्तयन्नपि पश्यामि न ते दुःखस्य कारणम् ॥१७३॥ विनयाञ्चितमूर्धानो बान्धवाः सुहृदोऽप्यमी । गुरोगिरमिवाश्रान्तं नातिक्रामन्ति ते वचः ॥१७४॥ दूरापास्तकिरीटेषु गलन्माल्येषु मौलिषु । वत्सेदानीं तवाज्ञेव भूभृतामवतंसति ॥१७५॥ किञ्च ते पुरमप्येतत्कुबेरपुरजित्वरम् । जुगुप्सिताप्सरोरूपास्तव शुद्धान्तयोषितः ॥१७६॥ जितदिग्दन्तिसन्तानमिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्वदेशीयं जृम्भते तव ॥१७७॥ तव श्रीवेश्मनि स्मेरप्रभापिञ्जरिताम्बराः । दृश्यन्ते सुरशैलेन्द्रसपत्ना रत्नराशयः ॥१७८॥ १. 'स्तन्नु' इत्येकस्यां प्रतौ ।
15
20
25