________________
षष्ठः सर्गः । द्युतोपायः ॥ ]
सौबलोऽप्यभ्यधाद्भूयः सेयं मिथ्या मतिस्तव । न सोऽप्याखण्डलः पाण्डुपुत्रजैत्रायुधे युधि ॥१५३॥ निहन्ति यत्प्रतापोऽपि शौण्डीरजडिमज्वरम् । कः सहेत तमभ्यर्णं तपः सुतरविं रणे ? ॥१५४॥ भीमेतिनामसाधर्म्यशङ्कितैरिव कुञ्जरैः । युद्धे गजासुराकारैः प्रणेशे पवनात्मजात् ॥१५५॥ खन्यते विशिखैर्जिष्णोर्वैरिवक्षःस्थलक्षितिः । अम्भःसिरास्तु जृम्भन्ते नेत्रयोस्तन्मृगीदृशाम् ॥१५६॥ कालिन्दीसोदरं कान्त्या करवालं यमोपमम् । धारयन्तौ करे युद्धे दुर्नियम्यौ यमावपि ॥१५७॥ विष्वक्सेनादयस्तेषां सुहृदस्ते रणे मुहुः । असृक्पानोत्सवं चक्रुर्द्वयेषामपि पत्त्रिणाम् ॥१५८॥ तदित्यजय्यदोर्दण्डताण्डवाः खलु पाण्डवाः । शस्त्राशास्त्रि विनाऽप्येकः किं तूपायोऽस्ति तज्जये ॥१५९॥ अथोत्फुल्लमुखाम्भोजमभ्यधत्त सुयोधनः । को नामायं झगित्येव कथ्यतां कथ्यतामिति ॥ १६० ॥ बभाषे सौबलः श्रीमन्देवता इव देवनाः । परं मयि प्रसीदन्ति नातिक्रामन्ति मे मनः ॥ १६१ ॥ नित्यं दुरोदरक्रीडात्यक्तव्रीडो युधिष्ठिरः । असौ क्रीडितुमाहूतः क्षणं न स्थातुमीहते ॥ १६२॥ देवितुं च न वेत्येव वीर ! खिद्यस्व मा स्म तत् । केनापि छद्मना स्वस्मिन्नयमाहूयतां पुरे ॥ १६३॥ तल्लक्ष्मीमखिलां येन करमारोहयामि ते ।
परं सर्वोऽयमालोचः पितुः स्वस्य निवेद्यताम् ॥१६४॥ दुर्योधनोऽभ्यधान्नाहमाख्यातुमिदमीश्वरः । सर्वमेतन्महीभर्तुस्त्वमेव कथयिष्यसि ॥ १६५॥
[ २१७
१. जैत्रं - जेतृ आयुधं यस्य सः । २. बाणानां सिंचानकपक्षि विशेषाणां च । ३. द्यूतक्रीडाः । ४. विचारः ।
5
10
15
20
25