SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१६] 10 [पाण्डवचरित्रमहाकाव्यम् । शकुनी-दुर्योधनयोः कुविचारणा ॥ इदानीमप्यहं शāस्तानुच्छेत्तुमलंतमाम् । सहायमद्भुतं कञ्चित्किन्तु पश्यामि नात्मनः ॥१४०॥ इमामुद्वीक्षितुं लक्ष्मी विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्वध्य तन्मरिष्याम्यसंशयम् ॥१४१॥ त्वं पुनर्मे पितुर्गत्वा सर्वमेतन्निवेदयः । इत्युक्त्वा विरते तस्मिन्पुनः शकुनिरब्रवीत् ॥१४२॥ धार्तराष्ट्र ! न खल्वेतदाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥१४३॥ पैत्र्यमेव क्षितेः खण्डं पाण्डवैरुपभुज्यते । मनागपि न तन्न्यूनमुपभुङ्क्ते भवानपि ॥१४४॥ भुवनाद्भुतसौभाग्यैर्भाग्यरेतावती यदि । तल्लक्ष्मीरगमत्कोटिं नामर्षस्तेऽत्र साम्प्रतम् ॥१४५॥ भ्रातृभिर्यदि भूभर्तुस्तस्य सङ्गरभङ्गुराः । किङ्करीचक्रिरे भूपाः किमानन्दायते न तत् ॥१४६।। यत्तु व्याकुरुषे तादृक्सहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं तामेतां ते मनागपि ॥१४७॥ जगतीगीतदो:कीर्तिप्रबन्धा बान्धवास्तव । पयोधय इवोद्वेलाः पृथिवीप्लावनक्षमाः ॥१४८॥ तेष्वप्यरातिभूपालमौलिलालितशासनः । रणे दुःशासनः पाकशासनेनापि दुःसहः ॥१४९॥ तव प्रत्युपकारैकलम्पटः सुभटाग्रणीः । सर्वारिहृदयोत्कीर्णः कर्णः प्राणाञ्जिहासति ॥१५०॥ अहमेकधुरीणस्ते समरेषु ससोदरः । तत्सहायैरिमामेतैः स्वच्छन्दं मेदिनीं जय ॥१५१॥ अथाह कौरवस्तर्हि विजयेः पाण्डवान्पुरः । एतैर्जितैर्जितैवेयमखिलाऽपि वसुन्धरा ॥१५२॥ १. कुलीनोचिताम् । २. इन्द्रेण । 15 . 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy