________________
[२१५
षष्ठः सर्गः । शकुनी-दुर्योधनयोः संवादः ॥]
स दीनवदनाम्भोजः शून्यात्मा निश्वसन्मुहुः । यदा किञ्चिद्ददौ कामं जल्प्यमानोऽपि नोत्तरम् ॥१२७|| तदा सविधमभ्येत्य मातुलः सौबलो बलात् । जगाद पथि गच्छन्तं करे धृत्वा सुयोधनम् ॥१२८॥ किमेतत् ते मुखं धत्ते प्रातः शीतरुचो रुचम् ? । इति जल्पन्तमस्वल्पं गान्धारेयस्तमभ्यधात् ॥१२९।। जीवञ्जगति किं नाम वर्तते मम मातुलः । एवमत्यन्तमृध्यन्ति पश्यतो यस्य शत्रवः ॥१३०॥ सहस्रशो मणिज्योतिर्निर्मिताऽमरकाM(मु)का । सुधर्मामप्यधःकृत्य जृम्भते भुवि सा सभा ॥१३१॥ दिगन्तसम्पदः सम्प्रत्यहंपूविकयाऽखिलाः । धर्मनन्दनमायान्ति द्वीपवत्य इवार्णवम् ॥१३२॥ आदाय सत्करैर्णीष्मभास्वानप इव श्रियः । साम्प्रतं परितो वर्षन्हर्षयत्यखिलामिलाम् ॥१३३॥ कुबेरीकृतनिःशेषवनीपककुलाः श्रियः । तस्य न्यक्कुर्वते गर्वं गीर्वाणेन्द्रश्रियामपि ॥१३४॥ विहाय हेमकोटीरं मूनि स्रग्दामवासिते । उत्तंसीकुर्वते तस्य शासनं मेदिनीभृतः ॥१३५।। ध्वजारोपोत्सवे तावत्त्वयाऽप्यालोकितं तथा । यथाऽस्य प्रश्रयाननै राजकैः किङ्करायितम् ॥१३६।। तथाऽस्य सर्वथा जज्ञे काश्यपी वशवर्तिनी । करैः पतद्भिरस्थानेऽप्यसौ नोद्विजते यथा ॥१३७॥ एतदुत्पश्यतः सर्वं प्राप्तनिष्ठं युधिष्ठिरे । कामं ममान्तरात्मानं दहतीव हुताशनः ॥१३८॥ बलीयः पुण्यमेवैकं न पुनः पौरुषं क्वचित् । पाण्डवा हन्त जीवन्ति यन्निर्मलयतोऽपि मे ॥१३९॥
१. वनीपको याचकः ।