________________
10
२१४]
[पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य ईर्ष्या ॥ दुर्योधनं पुनर्बन्धुप्रेमप्रह्लादिमानसः । दिनानि कतिचित्तत्र धात्रीपतिरधारयत् ॥११५॥ साकं शकुनिना तत्र मातुलेन सुयोधनः । पाण्डवस्फातिसेोऽपि गूढाकारोऽवसच्चिरम् ॥११६।। लीलाशिलोच्चयक्रीडावापीकेलिवनादिषु । चक्रीड पाण्डवैः सार्धं सुमनोभिः स दुर्मनाः ॥११७॥ विविक्तपरिवारेण पूर्वमुर्वीभृताश्रिताम् । अपरेयुः सभां दिव्यां विवेश धृतराष्ट्रसूः ॥११८॥ तत्राप इति विज्ञाय नवस्फटिककुट्टिमे । दुकूलाञ्चलमुत्कर्षन्नहस्यत स किङ्करैः ॥११९।। स्थलाब्जिनीधिया धावन्नादातुमरविन्दिनीम् । स गूढे तज्जले मज्जञ्जहसे वायुसूनुना ॥१२०॥ ततः स्मेरकपोलाक्षस्तत्क्षणादनुजीविभिः । तस्यापराणि वासांसि काश्यपीपतिरार्पयत् ॥१२१॥ तेनाङ्करितकोपोऽपि निगूहन्नाकृति निजाम् । अनालोकितकेनैव स धीमांस्तानि पर्यधात् ॥१२२॥ दूरोन्नतामपि क्वापि जानन्नुर्वीमनुन्नताम् । स्खलित्वा स पतन्नुच्चैरुपाहस्यत जिष्णुना ॥१२३॥ अपावृतादपि द्वाराद् भाभिरावृतशङ्कया । व्यावृत्तं हसतः स्मैनं दत्ततालं मिथो यमौ ॥१२४॥ इत्याद्यैः पाण्डवेयानामुपहासैर्मुहुर्मुहुः । कौरवाधिपतेरन्तरुज्जजागार मत्सरः ॥१२५॥ सत्कृत्य प्रणयाट्टैण प्रेषितः पाण्डुसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ सोऽभिमानी समातुलः ॥१२६॥
१. स्फातिवृद्धिः । २. पर्वतः । ३. कपोलवालमध्येऽसौ, विरोधद्रुरिवाङ्गवान् बभौ फलाय कस्मैचिद् विलक्षस्मितपुष्पितः ॥२०॥ धिग्गतास्मि समग्र क्षमा-पतिक्षयनिमित्तताम् । इत्यन्तः पतिते तत्र चकम्पे केलिवापिका ॥२०॥ इत्याधिकौ श्लोकौ । ४. तस्याग्रे स्फाटिकी भित्ति-मच्छामनवगच्छतः । गच्छत:स्खलिते मौलौ ते पुनर्जहसुर्जनाः ॥२६॥ इति श्लोक एकास्यां प्रतावधिको दृश्यते ।
15