________________
[२१३
षष्ठः सर्गः । शान्तिजिनप्रतिष्ठा ॥] .
भूमीभृतश्चतुःषष्टिर्ध्वजदण्डं हिरण्मयम् । स्नपयाञ्चक्रिरे स्वैरं वारानष्टादश क्रमात् ॥१०२॥ स्नात्रान्तरेषु व्योमान्तःसूत्रितामोदितोयदम् । धूपमुच्चिक्षिपुः केऽपि कर्पूरागुरुसम्भवम् ॥१०३॥ तिलकानपुरे चक्रुः सरसैश्चन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः स्नात्राणामन्तरान्तरा ॥१०४॥ मन्त्रैर्यथोदितैस्तैस्तैराहूताखिलदैवतम् । नन्दावर्तं परे यत्नाद् रक्षन्ति स्म क्षितीश्वराः ॥१०५॥ दधिरे चामरान्केचिदपरे दर्पणं दधुः । धारयामासुरन्ये तु सपिर्दध्यादिभाजनम् ॥१०६।। इतरे ढौकयामासुःक् फलाफलिकादिकम् । गन्धसर्वैषधीवृद्धिऋद्धयादि दधिरे परे ॥१०७।। इति भूमीन्दुसन्दोहे विश्वव्यापारहारिणि । शुभायां लग्नवेलायामनुकूलग्रहाश्रयात् ॥१०८॥ श्रीबुद्धिसागराचार्यैस्तत्र श्रीशान्तिवेश्मनि । अचीकरध्वजारोपं यथाविधि युधिष्ठिरः ॥१०९॥ युग्मम् । स विरेजे ध्वजः प्रेङन्मरुत्कल्लोललोलितः । रजो विश्वभ्रमासक्तं तत्कीर्ते विनयन्निव ॥११०॥ विस्मयस्मेरराजन्यवीक्षितं क्षितिवासवः । दशाहिकोत्सवं चक्रे सम्पत्सम्भारभासुरम् ॥१११॥ ततः प्रवर्धमानेन श्रद्धाशुद्धेन चेतसा । सङ्घमभ्यर्चयाञ्चक्रे यथौचित्यं स कृत्यवित् ॥११२।। सत्कृत्य वस्तुभिस्तैस्तैस्तदानीतोपदाधिकैः । अथ भूमीभुजो राजा प्रैषीद्देशं निजं निजम् ॥११३॥ समुद्रविजयाह्वानादुत्सुकं धर्मनन्दनः ।
औचितीचञ्चुरभ्यर्च्य विससर्ज गदाग्रजम् ॥११४॥ १. विमुञ्चन्तः० प्रतौ ।
15
25