SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 10 २१२] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवकृतपरमात्मभक्तिः ॥ स्वस्वदेशप्रसूतानि तस्य चेतःप्रसत्तये । उपायनान्युपादाय तत्राजग्मुर्महीभुजः ॥८९॥ पराभूताभ्रमातङ्गैः पौरस्त्याः पृथिवीभुजः । मदामोदिकपोलैस्तं करीन्द्रैरुपतस्थिरे ॥१०॥ वज्रवैडूर्यमुक्तादि रत्नजातमधिद्युति । आदाय तमुपासीदन् दाक्षिणात्याः क्षितिक्षितः ॥११॥ दिव्यैः कौशेयवासोभिभूषणैश्च हिरण्मयैः । अपरान्तमहीपालास्तमभ्येयुर्भयापहम् ॥१२॥ स्वस्वदेशोद्भवैस्तैस्तैः सुरसैन्धवबान्धवैः । उपसेदुस्तमश्वीयैरौत्तराहा महीभृतः ॥१३॥ मनुष्यमयमश्वेभमयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः सङ्गतैर्नगरं तदा ॥९४॥ अथ लग्नदिने धाम्नि षोडशस्य जिनेशितुः । विश्वं सङ्गमयाञ्चक्रे राजचक्रं महीपतिः ॥९५।। समं तैः सर्वसामन्तैरुत्सवेन गरीयसा । पार्थिवस्तीर्थवारीणि पीवरप्रीतिरावहत् ॥९६॥ रक्षामन्त्रादिसंस्कारक्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्री सत्यमेवाश्रयन्नृपाः ॥९७॥ कृपाणपाणयः केऽपि प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु भूनेतारोऽवतस्थिरे ॥९८॥ वेदिरक्षाकृते केचिद्दधतो वैणवी लताम् । कुर्वन्तस्तद्दवीयांसं लोकं तस्थुर्महीभृतः ॥१९॥ उदस्तकलशाः केचिज्जलाहरणहेतवे । इतस्ततः ससंरम्भं धावन्ति स्म धराधवाः ॥१००॥ स्नानीयानि जलस्यान्तरौषधानि न्यधुः परे । ऊचुरत्युच्चकैरन्ये स्नात्रसूक्तानि भूभृतः ॥१०१॥ 15 20 25 १. राजानः । २. अश्वः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy