________________
[२११
षष्ठः सर्गः । शान्तिजिनचैत्यवर्णनम् ॥]
अवाप्तजन्मनस्तत्र तत्र वृद्धिमुपेयुषः । तत्रैव चक्रवर्तित्वलक्ष्मीदीक्षादिशालिनः ॥७६॥ नानारत्नैरध:कुर्वन् गर्वं गीर्वाणवेश्मनाम् । विहार: कारयाञ्चक्रे तेन शान्तिजिनेशितुः ॥७७॥ युग्मम् । ज्वलत्कनकमाणिक्यमयमालोक्य तं जनः । चकार सुरशैलेन्द्रदिदृक्षाशिथिलं मनः ॥७८॥ इन्द्रनीलमयद्वारशाखांशुश्रेणिकैतवात् । सान्द्रच्छायोल्लसत्तीरवनराजीविराजिनी ॥७९॥ तत्र स्फटिकसोपानप्रभाव्याजेन जाह्नवी । रेजे पवितुमात्मानमागतेव तरङ्गिता ॥८०॥ युग्मम् । शातकुम्भीयकुम्भौघप्रतिबिम्बैर्व्यडम्बयत् । नीलाश्मकुट्टिमं तस्मिन्सहेमकमलां यमीम् ॥८१॥ ज्योतीरसमयक्षुद्रजैनवेश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्णताटङ्क इव स व्यभात् ॥८२॥ शश्वदभ्रंलिहे तस्य स्फाटिकस्य शशी निशि । ज्योतिर्जालजले मज्जन्सस्मार क्षीरनीरधेः ॥८३॥ तत्रालोक्य ध्रुवं रूपशालिनी: शालिभञ्जिकाः । अमरैरमरीरूपशिल्पी काममनिन्द्यत ॥८४॥ यदि वा नास्ति तत्स्वर्गे नावनौ न रसातले । यदुपैत्युपमानत्वं तस्य यच्चोपमेयताम् ॥८५।। विश्वाद्भुतश्रियस्तस्य ध्वजारोपणपर्वणि । दूतैराबाययामास सर्वं राजा स राजकम् ॥८६॥ प्रहित्य नकुलं प्रौढप्रश्रयप्रवणाशयः । प्रीत्या निमन्त्रयामास केशवं धरणीधवः ॥८७॥ बन्धुवात्सल्यसोल्लासमना दुर्योधनं पुनः । सहदेवेन भूमीन्द्रः सबान्धवमजूहवत् ॥८८॥ १. शातकुम्भं स्वर्णम् । २. यमुनाम् ।