SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [२०९ 10 षष्ठः सर्गः । भीमादयो दिग्यात्रां कृत्वाऽऽगताः ॥] उपनीय हयानुच्चैय॑ञ्चितोच्चैःश्रवःश्रियः । तदुर्वीपतिरात्मानमवति स्म कुरूद्वहात् ॥५०॥ तस्य नेपालभूपालः केलिकस्तूरिकामृगान् । उपदीकृत्य पाति स्म श्रियं पूर्वक्रमाजिताम् ॥५१॥ क्षुण्णकुङ्कमकेदारपांशुपूरपिशङ्गिताः ।। कश्मीरेषु हयास्तस्य बिभ्रतिस्मैकवर्णताम् ॥५२॥ हिमालयमथारुह्य पार्वतीयान् विजित्य च । निचखान जयस्तम्भांस्तदुच्छ्रायं विवर्धयन् ॥५३॥ नानाश्चर्यमयात्तस्मादवरुह्य गिरेः शनैः । आदिदेश स हूणीनामुरःकुट्टनपाटवम् ॥५४॥ पिबन्कीरयश:क्षीरं खसश्रीरसमाहरन् । नितान्तपुष्टसर्वाङ्गः स प्रत्याववृते ततः ॥५५॥ इत्यादाय दिशां लक्ष्मी नगरे नागसाह्वये । तपःसूनोः कनीयांसश्चत्वारोऽप्याययुः समम् ॥५६॥ दिक्कुक्षिभरिभिः सैन्यै राजा प्रत्युज्जगाम तान् । प्रवाहानिव सिन्धूनामूर्मिभिर्मकराकराः ॥५७।। तेन बन्धुबलौघास्ते चत्वारोऽप्यालुलोकिरे । पयोधय इवायाताः सेवितुं तमिव स्वयम् ॥५८॥ ततो निलीयमानानि सैन्ये महति भूपतेः । ब्रह्मणीव स्फुलिङ्गौघास्तानि सैन्यानि रेजिरे ॥५९॥ तान्यनीकानि पञ्चापि तत्र प्राप्तानि सङ्गमम् । शरीरिणां शरीरेषु भूतानीव बभासिरे ॥६०॥ प्रीतिप्रह्वाः प्रणेमुस्ते कनीयांसस्तपःसुतम् । तानालिङ्ग्य मुदा सोऽपि ब्रह्मानन्दमिवान्वभूत् ॥६१॥ मरुत्प्रेडोलितानेकध्वजताण्डवमण्डितम् । कस्तूरीमिश्रकाश्मीरसिक्तघण्टापेथक्षिति ॥६२॥ 15 20 25 १. 'ब्रह्मास्वादम्' इति ख. ग. प्रतित्रयपाठः । २. राजमार्गः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy