SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०८] [ पाण्डवचरित्रमहाकाव्यम् । भीमादीनां दिग्यात्रा-गमनम् ॥ स्वादं नागरखण्डानां वनवासस्थलीषु सः । लम्भयन्सैनिकांस्तस्थौ कुन्तलीलोलुपश्चिरम् ॥३७॥ कौङ्कणीकङ्कणान् भञ्जन्नालिकेरीद्रुमैः सह । लाटीकटाक्षलुण्टाकः सोऽथ व्यावर्तत क्रमात् ॥३८॥ यश:कुसुमसौरभ्यवासितक्षितिमण्डलः । नकुलोऽपि विवेशान्तः प्राचेतस्या दिशस्तदा ॥३९॥ प्रापयन्नन्तमत्यन्तमावन्तीनयनाञ्जनम् । उच्छिन्दबहलच्छायाः सौराष्ट्रीपत्रवल्लरीः ॥४०॥ महार्णवसरस्वत्योः प्रियमेलकपावितम् । प्रभासक्षेत्रमक्षोभ्यबलोमिनकुलो ययौ ॥४१॥ युग्मम् । । प्रक्षाल्य मलमुद्वीक्ष्य तत्र चन्द्रप्रभप्रभुम् । जयस्तम्भान् महारम्भो न्यस्यति स्म स धीरधीः ॥४२॥ शृण्वन्स द्वारिकालोकगीतं कंसजितो यशः । पूंगपुगवता कच्छान् कच्छेनैवांबुधेर्ययौ ॥४३॥ गापयित्वा* निजां कीर्तिविस्फूर्ति तत्र चारणान् । पारसीकाननीकेन स चकारात्मकिङ्करान् ॥४४॥ तत्रास्य पिण्डखर्जूरस्वादमेदस्विसम्मदैः । चिरमध्यषिरे कच्छाः सैनिकैः पश्चिमाम्बुधेः ॥४५॥ यवनीवदनाम्भोजविकासतुहिनोत्करः ।। शकीसम्भोगशृङ्गारसमुद्रकलशोद्भवः ॥४६।। माद्यत्पञ्चनदस्त्रैणमदामोदमलिम्लुचः । सैन्धवीवर्गवैधव्यव्यसनी स न्यवर्तत ॥४७॥ सहदेवोऽपि देवेन्द्रदेश्यशौण्डीरिमक्रमः । व्यगाहत महाबाहुः कुबेरचरितां दिशम् ॥४८॥ संदिशन्हारसंहारि जाङ्गलीनाममङ्गलम् । आस्कन्दति स्म काम्बोजानोजस्विभुजविक्रमः ॥४९॥ 15 20 25 १. कुन्तलदेशस्त्रीषु लुब्ध । २. कृष्णस्य । ३. पूगवृक्षसमूहवता । ★ 'गोपयित्वा' इति काव्यमालायाम् पाठः । ४. तीरेण । ५. कलशोद्भव-अगस्त्यः । ६. उत्तराम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy