SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ [२०७ षष्ठः सर्गः । भीमादीनां दिग्यात्रा-गमनम् ॥] क्षुण्णा हरिखुरैर्दन्तिपादापातैर्मतीकृताः । भुवस्तत्कीतिबीजानां वापयोग्या इवाबभुः ॥२४।। अथ भीमः क्रमात्कामरूपान् भीमभुजो ययौ । सैन्यदन्तिमदस्पद्धिकालागुरुरसस्रुतीन् ॥२५॥ तदीयां श्रियमादाय स ततार सुरापगाम् । लम्भयन्कुम्भिनां दानैर्यमुनासङ्गमोत्सवम् ॥२६॥ ततोऽङ्गान् भक्तिनम्राङ्गान्सुह्याञ्जिमितविक्रमान् । स्वानमाद्वङबद्धाङ्गान्स चकार भुजौजसा ॥२७॥ स वितेने रणारम्भनिष्कलानुत्कलानपि । कलिङ्गानपि निर्मुक्तराजलिङ्गानसूत्रयत् ॥२८॥ अथारोप्य जयस्तम्भान् गङ्गासागरसङ्गमे ।। उन्मूलयन्स पाञ्चालडहालादीन्यवर्तत ॥२९॥ अर्जुनोऽप्यर्जुनच्छायमर्जयन्मार्गणैर्यशः । न तेष्वक्षुण्णदाक्षिण्यो दक्षिणामाविशद्दिशम् ॥३०॥ भ्रष्टराष्ट्रान्महाराष्ट्रान् कर्णाटांश्चाटुकारिणः । तिलङ्गानङ्गुलिव्यङ्गान्कुर्वाणः स रणे शरैः ॥३१॥ केरलीकुरलान्लुम्पन्वैदर्भीविभ्रमान्हरन् । द्रमिलीकेलिमुल्लुम्पन्मलयोपत्यकां ययौ ॥३२।। युग्मम् । तस्यामालानितैस्तस्य चन्दनद्रुमकानने । नामसाम्यादिव क्रुद्धर्नागैर्नागा निरासिरे ॥३३॥ । तत्र तस्य लवङ्गैलालवलीस्वादलालसाः । सल्लकीपल्लवग्रासे वैमुख्यमभजन् गजाः ॥३४॥ पाण्डवः सह मुक्ताभिः पाण्ड्यानामाहरन् यशः । ताम्रपर्णीयुजि प्राप दक्षिणाम्भोधिरोधसि ॥३५॥ तत्रोत्तम्भ्य जयस्तम्भान्सेतुबन्धैकबन्धुरे । द्वैराज्यं रामकीर्तीनां चकार निजकीर्तिभिः ॥३६॥ १. समीकृताः मलीकृताः इति प्रत्यन्तरे । २. स्रुतिः-स्रवः । ३. 'स्वान-मान्यङ्गवद्वङ्गान्' प्रत्यन्तरः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy