SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०६] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिराज्ञया भीमादीनां दिग्यात्रागमनम् ॥ देव ! दक्षिणवातेन्दुवसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय कामः किं धावति स्वयम् ? ॥११॥ पुर:सरेषु किं नाम तरङ्गसमिरोमिषु । जलाशयः स्वयं पान्थखेदच्छेदाय सादरः ॥१२॥ सत्सु तत् त्रिजगज्जैत्रभुजेषु निजबन्धुषु । दिशां जयाय देवेन न प्रस्थातव्यमात्मना ॥१३॥ इत्याकर्ण्य वचस्तेषां जहर्ष जगतीपतिः । निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥१४॥ क्रमाम्भोजनतान् नीतिचतुरश्चतुरोऽपि तान् । अंसयोरामृशन्प्रीत्या स दिशो जेतुमादिशत् ॥१५॥ राजाज्ञेत्यन्वमन्यन्त चतुरङ्गां चमूममी । मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ? ॥१६॥ कुन्ती-माद्र्यादिभिर्गोत्रवृद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यैश्चत्वारोऽपि पृथक् पृथक् ॥१७।। भीमः प्राची दिशं जिष्णुरपाची नकुलः पुनः । प्रतीची सहदेवस्तु किलोदीचीमशिश्रियत् ॥१८॥ चतुर्भिरप्यनीकैस्तैराक्रान्तां परितः क्षितिम् । बभार समभारत्वात्सुखमेव फणीश्वरः ॥१९॥ एभिः प्रसभमारब्धाः कुर्युः किं नाम भूमिपाः ? । इतीव द्रष्टुमुच्चैामारोहद्वाहिनीरजः ॥२०॥ निःशेषारिवधूनेत्रसलिलैः कूलमुद्रुजाः । स्रवन्तीनॊभिरुत्तेरुस्ते गुल्फद्वयसीरपि ॥२१॥ दिग्निकुञ्जेषु मूर्च्छन्तस्तेषां निस्वाननिस्वनाः । भूभृतां दारयामासुर्दरीश्च हृदयानि च ॥२२॥ आत्मीयमपि ते बाह्वोरूष्माणमसहिष्णवः । केतनाऽऽलिच्छलान्मन्ये कदलीवनसेविनः ॥२३॥ 15 on 25 १. सैन्यधूलिः । २. तटभेदिन्यः । ३. ध्वजश्रेणिमिषात् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy