________________
5
२०४] [पाण्डवचरित्रमहाकाव्यम् । अन्येषाम् पृथक्पृथक् राज्यार्पणम् ॥ नयनाञ्जलिभिः पौरनारीभिश्चालिताञ्चलम् । पीयमानो मुहुः प्रीत्या हास्तिनं सोऽत्यहस्तयत् ॥५३१॥ चतुभिः कलापकम् । बन्धुप्रीत्या गुरूणां च पर्यालोचेन तत्क्षणात् । दुर्योधनं स राजानमिन्द्रप्रस्थेऽभ्यषिञ्चत ॥५३२॥ अन्येषामपि बन्धूनां धृतराष्ट्रात्मजन्मनाम् । पार्थिवः स यथौचित्यं ददौ देशान् पृथक्पृथक् ॥५३३॥ उत्सर्पदुत्सवमयं स विभुः समाप्य, राज्याभिषेकमहमिद्धमहःप्ररोहः । सत्कृत्य कैटभरिपुप्रभृतीन्नरेन्द्रान् रत्नोत्करैर्निजनिजान्प्रजिघाय देशान् ॥५३४।।
इति जितपुरुहूतः स्फीतपुण्योपहूतः प्रतिनतनृपतिश्रीसेव्यमानाघ्रिपद्मः । 10 ससुरभिगुणमालो मालतीदामकुन्दस्तबकविशदकीर्तिः पूंगमह्नां निनाय ॥५३५।। इति मलधारीश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पार्थतीर्थयात्रा
युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥
१. प्रतिनव-प्रतित्रयपाठः । २. समूहम् ।