SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०२] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य राज्याभिषेकः॥ ततस्तमभिषेकान्ते कक्षान्तरनिवेशिनम् । दिव्यैः प्रसाधिकास्तैस्तैर्नेपथ्यैरुपतस्थिरे ॥५०५॥ तास्तस्य भ्रमरश्यामान् नयद्भिनिविरीसताम् । केशानुद्वापयामासुधूमैरगरुजन्मभिः ॥५०६॥ तस्य मूर्द्धनि धम्मिल्लं मल्लिकादामगर्भितम् । मुक्तावलयितोपान्तं रचयन्ति स्म तास्ततः ॥५०७॥ छादितादित्यमत्यच्छं शरदभ्रं जिगीषुभिः । चन्दनैश्च तदीयाङ्गं व्यलिम्पंश्चम्पकद्युति ॥५०८॥ शरज्ज्योत्स्नासमुच्छेकच्छेदच्छेकतराती । ताः पर्यधापयन्नेनं दुकूले हंसलक्ष्मणी ॥५०९॥ उदयादिशिरश्चुम्बिचण्डरोचिविडम्बनम् । कार्तस्वरकिरीटं च तदीये मूर्द्धनि न्यधुः ॥५१०॥ तथ्यगीरथदेश्याऽऽस्यचक्रद्वयमनोरमे । न्यस्यन्ति स्म तथा तस्य कर्णयो रत्नकुण्डले ॥५११॥ माणिक्यनिष्कसधीचीमामुञ्चन्हारवल्लरीम् । कण्ठे चास्य सितां कीर्ति प्रतापकलितामिव ॥५१२।। अथोत्थाय ततो वारस्त्रैणचालितचामरः । मृगाङ्कमण्डलाकारश्वेतच्छत्रविराजितः ॥५१३।। मुदितैर्बन्दिसंदोहैरुदीरितजयध्वनिः । धावद्दौवारिकव्रातविहितालोकनिःस्वनः ॥५१४॥ तत्कालं फाल्गुनादेशान्मणिचुडेन निर्मिताम् । सभां रत्नमयीं दिव्यामध्यतिष्ठद् युधिष्ठिरः ॥५१५॥ त्रिभिर्विशेषकम् । नभः-स्फटिकभित्तीनां यस्यामविदितान्तरः । तमसीव करस्पर्शादालोकेऽप्यचलज्जनः ॥५१६॥ ज्वलन्माणिक्यतेजोभिरलक्षितनतोन्नताः । यस्यामन्तःपतन्तः के नागमञ्जनहास्यताम् ? ॥५१७॥ 15 20 - 25 १. सान्द्रताम् । २. निष्कम् - वक्षोभूषणविशेषः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy