________________
१९८]
[पाण्डवचरित्रमहाकाव्यम् । द्रौपद्यऽर्जुनयोः संवादः ॥ चेतसा प्रथमं पार्थमभ्युत्तस्थौ ततो दृशा । देहेन तदनु स्वेदरोमाञ्चसचिवेन सा ॥४५३॥ अनीशाऽपि भृशोन्मीलत्साध्वसा प्रतिपत्तये । कामं बहुमता जज्ञे याज्ञसेनी किरीटिनः ॥४५४।। बलादातन्वतोर्नेत्रप्रवर्तननिवर्तने ।। पश्यन्त्यां तं रणस्तस्यामौत्सुक्य-त्रपयोरभूत् ॥४५५॥ कृष्णा जिष्णौ चिराद्गेहमुपेयुषि ददौ मुदा । कटाक्षपटलव्याजादय॑मिन्दीवरैरिव ॥४५६।। क्षेप्तुकाम इवात्यन्तमन्तदेहं कपिध्वजः । भुजोपपीडं प्रक्रीडत्प्रीतिरालिङ्गति स्म ताम् ॥४५७॥ तदाश्लेषसुखास्वादनिमीलितविलोचनः । चिरप्रवसनक्लेशमपनिन्ये धनंजयः ॥४५८॥ साऽपि विश्वत्रयीं मेने तदा तत्सङ्गमोत्सवे । सुधामयीमिवानन्दपरिस्पन्दमयीमिव ॥४५९॥ अध्यासामास पल्यङ्गं तुल्यः कुसुमधन्वना । जिष्णुरध्यासयाञ्चक्रे तां च प्रतिकृति रतेः ॥४६०॥ प्रेमवार्तास्तया साधू तास्ताः कुर्वन् कपिध्वजः । तदमन्यत निःशेषमहोरात्रमपि क्षणम् ॥४६१॥ हेमाङ्गदश्च भूपालो मणिचूडश्च खेचरः । चिरं सितहयप्रीत्या पुरे तस्मिन्नतिष्ठताम् ॥४६२॥ मेदिनीपतिरन्येधुराहूय विजयं रहः । विश्वस्य कुशलोदकं वितर्कं स्वमचीकथत् ॥४६३॥ वत्स ! वीक्षस्व कर्णान्तपलितंकरणी जराम् ।। इयं प्रवर्तयत्यद्य धर्मकर्मणि मां बलात् ॥४६४॥ विषयाः सहवास्तव्याः श्यामलैरेव कुन्तलैः । सितीभूतैः पुनर्धर्मः सख्यं हि समशीलयोः ॥४६५।।
15
20
25
१. कामदेवेन । २. कुशलपरिणामम् ।