________________
5
10
15
20
25
१९४]
[ पाण्डवचरित्रमहाकाव्यम् । द्वारकायाम् कृष्णमिलनम् ॥
पीयमानं तरत्तारै: पौरनारीविलोचनैः । निन्ये हरिर्निजं धाम सपरीवारमर्जुनम् ॥४०१॥ फाल्गुनाय मुरारातेरुपचारं चिकीर्षतः । स्वाराज्यमपि निर्जेतुमाचकाङ्क्ष मनस्तदा ॥४०२॥ कृष्णोऽस्य स्वागतीचक्रे सुभद्रां भगिनीं निजाम् । अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ ४०३॥ यादवीमङ्गलोद्गीतिनवपीयूषतोयदः । अभून्मुदितगीर्वाणस्तत्पाणिग्रहणोत्सवः ॥४०४|| पाणिमोक्षविधौ जिष्णोर्यद्यद्भूयोऽप्यदित्सत । अल्पीय इति कंसारिस्तेन तेनाप्यलज्जत ॥४०५॥ पित्रोरुत्कण्ठितोऽप्युच्चैर्जिष्णुः कृष्णानुरोधतः । उत्सवैकमयान् कांश्चित्तत्रातीयाय वासरान् ॥४०६॥ कृष्णमन्येद्युरापृच्छ्य समं पल्या सुभद्रया । हस्तिनापुरसोत्कण्ठः प्रतस्थे कपिकेतनः ||४०७|| ततः स खेचरानीकविमानैस्तिरयन्नभः । चचाल मणिचूडेन समं हेमाङ्गदेन च ॥४०८॥ विमानमनुकामीनमध्यासीनो विलोकयन् । सरःसरिन्नगारामपुरग्राममयीं महीम् ॥४०९॥ खेचरेन्द्रनरेन्द्राभ्यां श्रिताभ्यामभितोऽन्तिके । दत्ततालं मिथस्तास्ताः कुर्वन्प्रमदसंकथाः || ४१०॥ पु(प्लु)ष्यन्तं चाऽदवीयस्त्वात्तापैस्तीत्रैर्विवस्वतः । शुष्यन्तं च दधत्स्वेदं बंहीयोभिर्नभोऽनिलैः ॥ ४११॥ वहन् हर्षभरोल्लुण्ठमुत्कण्ठतरलं मनः ।
आसीदत् सीददानन्दं हस्तिनापुरमर्जुनः || ४१२ ॥ चतुभिः कलापकम् । धावन्तः खेचराः काममहंपूर्विका ततः । आयान्तं पृथिवीभर्तुः पृथासूनुमचीकथन् ॥४१३॥
१. पुरं सोत्कं ठ इति चेत्, साधुः । २. इच्छानुसारि ।