________________
पञ्चमः सर्गः । हस्तिनापुरात् दूतस्यागमनम् ॥ ]
[ १९३
तमूचेऽथ पृथासूनुरहो ! किमिदमुच्यते ? | आत्मन्येवात्मनः किं स्यादुत्तमर्णाधमर्णता ? ॥ ३८८॥ किं च मामुल्लसत्प्रीतिर्भगिनीयं प्रभावती । शश्वत् त्रैलोक्यजैत्राभिराशीर्भिरभिनन्दतु ॥३८९॥ ततस्तद्भक्तिसम्भाररज्जुसंदानिताशयः । निनाय दिवसान् पाण्डुपुत्रस्तत्रैव कांश्चन ॥ ३९० ॥ कश्चिदप्यन्यदा पूर्वसंस्तुतो हस्तिनापुरात् ।
अभ्येत्य रभसोत्फालः फाल्गुनाय व्यजिज्ञपत् ॥३९१॥ कुमार ! चारचक्रेभ्यो निशम्य त्वामिहागतम् । स्नेहादाह्वातुमह्नाय पिता ते प्रजिघाय माम् || ३९२।। वार्द्धकार्हाः क्रियाः कर्तुं स्वयं राज्ये तपः सुतम् । अभिषेक्तुमनाः काममुर्वीशस्त्वामपेक्षते ॥ ३९३॥ प्रतिप्रातरपश्यन्ती कुन्ती त्वद्वदनं पुनः । वहत्यजस्रमस्राम्बु जम्बालजटिले दृशौ ॥ ३९४॥ इत्युपश्रुत्य तद्वाचमाचान्तहृदयो मुदा । पित्रो: स्नेहेन बीभत्सुर्नितरामौत्सुकायत ॥ ३९५ ॥ ततस्तमाह बीभत्सुराद्यं शत्रुंजये जिनम् । नमस्कृत्याहमायात एव त्वं तु पुरो व्रज ॥ ३९६॥ इति सम्प्रेष्य तं शत्रुंजयं प्रति धनंजयः । सार्धं भू-खेचरेन्द्राभ्यां चलति स्म विहायसा ॥ ३९७|| तस्मिन्परमया भक्त्या वन्दित्वाऽऽदिजिनेश्वरम् । द्वारकामगमत्कृष्णदर्शनोत्कण्ठितोऽर्जुनः ॥३९८॥ प्रत्युज्जगाम गोविन्दस्तमायान्तं नभोऽध्वना । नीलकण्ठ इवोत्कण्ठातरलो नवनीरदम् ॥३९९॥ तौ मिथः परिरेभाते प्रत्यक् प्रागनिलाविव । शरीरद्वयमुत्सृज्य बिभ्रतावेकतामिव ॥४००||
१. आत्मनैवा० प्रत्यन्तरम् । २. संदानित: - बद्धः । ३. जम्बालः- पङ्कः । ४. मयूरः ।
5
10
151
20
25