SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 10 १९२] [पाण्डवचरित्रमहाकाव्यम् । मणिचूडस्यागमनम् ॥ वस्तु नास्त्येव तद्येन तव स्यात्प्रत्युपक्रिया । जनोऽयमनुमन्तव्यः किङ्करत्वाय केवलम् ॥३७५।। इति व्याहृत्य भूपेन प्रश्रयेण गरीयसा । अनुनीय तदा निन्ये हिरण्यपुरमर्जुनः ॥३७६॥ उत्सवैकमयं स्मेरदानन्दलहरीमयम् । सर्वसम्पन्मयं स्वर्गसर्वाङ्गीणकलामयम् ॥३७७॥ प्रत्याहर्ता प्रभावत्या बतायमयमर्जुनः । इति निर्दिश्यमानोऽसौ लोकैः प्रीत्याऽविशत्पुरीम् ॥३७८।। युग्मम् । राज्ञा च राजपत्न्या च राजवेश्मन्यनुद्रुतः । विवेश विक्रम-श्रीभ्यां मूर्तिमद्भ्यामिवार्जुनः ॥३७९।। तत्र सिंहासने हैमे निवेश्य विवशो मुदा । जगाद पार्थिवः पार्थमित्थं विनयवामनः ॥३८०॥ प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः । गुणक्रीतमिदं राज्यं कृतार्थय यथारुचि ॥३८१॥ पार्थोऽब्रवीदसामान्यसौजन्य-स्वजने त्वयि । स्वर्गाधिपत्यमप्येतन्ममैव किमिवापरम् ? ॥३८२॥ प्रौढप्रणयमन्योऽन्यमित्युल्लापवतोस्तयोः । क्षणेन मणिचूडोऽपि तत्र व्योमाध्वनाऽऽगमत् ॥३८३।। प्रणिपत्य यथौचित्यं तानशेषान् विशेषवित् । स खेचरपतिः पार्थमुवाच रचिताञ्जलिः ॥३८४॥ भगिनीहरणोद्भूतं जयोदाहरणं तव । उपगीतमुपश्रुत्य खेचरैरहमागमम् ॥३८५।। एकैकमवदानं ते वागीशस्यापि नेशते । गरीयस्यो गिरो वक्तुं किं पुनर्मादृशामिमाः ? ॥३८६।। कृते किन्तु प्रभावत्याः प्रत्यानयनकर्मणि । राज्यदानाधमोऽहं ब्रवीमि किमतः परम् ? ॥३८७।। 15 20 25 १. कथयित्वा । २. पराक्रमः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy