SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [१९१ पञ्चमः सर्गः । हेमाङ्गदस्य अर्जुनं प्रति कथनम् ॥] किंचोपकृतमप्यस्यामिदं भावि तवाफलम् । यदि पश्चाद्वने देव ! सम्प्रत्येव न धावसि ॥३६२॥ मुक्ताऽस्ति मार्गकान्तारे मायामेधाविना मया । विद्या प्रभावतीरूपधारिणी यत्प्रतारिणी ॥३६३॥ सर्वोऽप्यनुपदी लोकस्तया हन्त प्रतारितः । विनक्ष्यति क्षणादेव छद्मना को न वञ्च्यते ? ॥३६४॥ तदुपादाय दीर्घाक्षीमेतां गत्वा च सत्वरम् । भ्रातस्त्रायस्व विश्वस्य जन्तुजातस्य जीवितम् ॥३६५।। अहं तु गन्तुमिच्छामि भावज्ञ ! त्वदनुज्ञया । नातः परं तवाप्यस्मि मुखं दर्शयितुं क्षमः ॥३६६॥ ततो विसृज्य तं प्रीत्या प्रणिपत्य प्रभावतीम् । यानमारोप्य च स्वैरं दधावे श्वेतसैन्धवः ॥३६७॥ भवत्प्राणपरित्यागाशङ्कातरलिताशयः । देवस्त्वरितमेवायमुद्देशमिममागमत् ॥३६८।। कपिध्वजप्रभावत्योदृष्टैतत्तव वैशसम् । भूपाल ! यदभूदुःखं जानीतस्तदिमौ परम् ॥३६९॥ नश्यति स्म ततो देवीपाणिपूताम्बुसेकतः । विध्यातायाश्चितायास्ते सेयं विद्या प्रतारिणी ॥३७०॥ परप्रमोदसम्भारसम्भूतपुलकाङ्करः ।। ततो हेमाङ्गदो राजा व्याजहार कपिध्वजम् ॥३७१॥ शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् । निर्माणं हि सहस्रांशोर्जगदालोकहेतवे ॥३७२॥ वीरोत्तंस ! त्वया देवीमिमामाहरताऽधुना । इयतो जन्तुजातस्य संहारः परिरक्षितः ॥३७३।। कोटिशः श्रुतमद्वैतं त्वद्भुजस्तम्भवैभवम् । साक्षात्कृतमिदानीं तु दैवादेवमिदं गायः ॥३१४।। १. तथा-इति प्रत्यन्तरपाठः । २. विघ्नम् हिंसाम् इत्यर्थः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy