SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १९० ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनप्रशंसा ॥ ततः स्थेमानमानीय मानसं साध्वसाकुलम् । निपातयतु निस्त्रिंशं नृशंसं ! प्रथमं भवान् ॥ ३४९॥ इत्याक्षेपगिरा सोऽपि दूरोज्जागरपौरुषः । अपकोशमसिं कृत्वा प्रजहार कपिध्वजम् ॥३५०॥ तेन गाढप्रहारेण दक्षिणेर्मा धनंजयः । तमूर्जितभुजं दृष्ट्वा कष्टजय्यममन्यत ॥३५१॥ ततः कपिध्वजो धौतधारेण तरवारिणा । बाह्वोः सर्वाभिसारेण तं हन्तुमुदतिष्ठत ॥३५२॥ निहतः स तथा शत्रुः स्कन्धकोटौ किरीटिना । यथा पपात मूर्च्छालः शुष्कतालुर्भुवस्तले ॥३५३॥ चेलान्ततालवृन्तेन तमुपानीय चेतनाम् । सुधीः सधैर्यप्रागल्भ्यमभ्यधत्त धनंजयः ॥३५४॥ हंहो ! विद्याधराधीश दूरमालम्ब्य दोर्बलम् । पुनः प्रहर निःशङ्कं मा कलङ्कय पौरुषम् ॥३५५॥ इत्यवष्टम्भसंरम्भं विभाव्य भयभङ्गुरः । विहाय सहसा खड्गमानमत्खेचरोऽर्जुनम् ॥३५६॥ नीचैरूचे च तं वीर ! व्यलीकं क्षम्यतामिदम् । भूर्भुवःस्वस्त्रयीलोकत्राणशौण्डा हि पाण्डवाः ||३५७॥ शौण्डीरचूडारत्नेन परस्त्रीप्रियबन्धुना । सर्वथैव त्वया नाथ ! विजिग्येऽहमनीदृशः || ३५८ ॥ चारणेभ्यो भुजस्तम्भस्फूर्तयस्ते मुहुः श्रुताः । खलीकृतोऽसि विश्वेश ! साक्षात्कर्तुं मयाऽद्य ताः ॥३५९॥ परं बद्धरणारम्भसंरम्भे हरिणद्विषि । न द्विपेद्रोऽप्यलं स्थातुं का कथा हिरणस्य तु ॥ ३६० ॥ धर्मन्यायसदाचारपरोपकृतयस्तव । सहायास्तत् त्वया वीर ! जगज्जितमहं तु कः ? ॥३६१ ॥ १. भयाकुलम् । २. दक्षिणे ईर्म व्रणमस्येति । ३. अपराधम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy