SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [१८९ 10 पञ्चमः सर्गः । अर्जुनस्य पराक्रमः ॥] चेतस्त्वं वर्धसे दिष्ट्या मम भ्रातुः प्रियः सुहृत् । कुतोऽप्यत्र बताऽऽयातः स एवायं धनंजयः ॥३३६।। प्रभावोऽस्ति प्रभावत्याः सत्यं सुकृतसम्पदः । सतीव्रतसर:सेतुः कपिकेतुर्यदागमत् ॥३३७।। सरलैकस्वभावोऽयं मा स्म मायाविनाऽमुना । खेचरेण रणे शान्तं यद्वा नन्वेष फाल्गुनः ॥३३८॥ सर्वाः सम्भूय बीभत्सोर्भवत्यः कुलदेवताः । शरीरमधितिष्ठन्तु यथा स्याद्विजयी युधि ॥३३९॥ पतिव्रताव्रतस्यास्य कोऽपि मे महिमाऽस्ति चेत् । किरीटिना दुरात्माऽयं जीयतां तन्नभश्चरः ॥३४०॥ अस्याममूदृशानल्पविकल्पाकुलचेतसि । उवाच विजयो वाचं खेचरापसदं पुनः ॥३४१॥ गृहाण रे क्षणात्पाणौ किमप्यायुधमात्मनः । खड्गोऽयं दुष्ट ! ते रुष्टस्तदेष न भविष्यसि ॥३४२।। ऊचे च फाल्गुनं वल्गु स वल्गन् समराङ्गणे । रे ! मनुष्यकृमे ! नश्य किमु रोदयसि प्रियाम् ? ॥३४३॥ विद्याधरवधूवर्गवैधव्यव्रतदीक्षिता । कष्टं कृपाणयष्टिर्मे पतन्ती त्रपते त्वयि ॥३४४।। बालों को नाम मत्पाणे रे ! तामाच्छेतुमिच्छति । को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टमीश्वरः ? ॥३४५॥ ममामर्षहुताशेऽस्मिन्नाहुतीयन्मुधा ततः । कथं मनुष्यलोकस्य कौतुकान्यपनेष्यसि ? ॥३४६।। इत्युदीरयति स्वैरं तस्मिन् वक्ति स्म पाण्डवः । रे न शौण्डीरिमा वाचि भुजेष्वेवावतिष्ठते ॥३४७।। किन्तु दुर्दान्तवृत्तीनां शासनाय भवादृशाम् । उद्यता अपि नो पूर्वं प्रहरन्ति कुरूद्वहाः ॥३४८।। 15 20 25 १. विद्याधराधमम् । २. पराक्रमः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy