________________
[१८७
पञ्चमः सर्गः । अर्जुनस्य हेमकुटे गमनम् ॥]
ततः स सहसाऽभ्येत्य बीभत्सुमभिषस्वजे । तदीयाङ्गपरिष्वङ्गैः स्वमङ्गं पावयन्निव ॥३१०॥ वृत्तान्तेन ततस्तेन प्रेडोलितमनास्तदा । किमेतदिति बीभत्सुमन्वयुङ्क्त महीपतिः ॥३११॥ अथास्मै कथयामास पार्थादेशेन केसरः । वदेयुरवदानं हि सन्तो नात्मीयमात्मना ॥३१२॥ तदानीं त्वामवस्थाप्य राजञ्जिष्णोनिदेशतः ।। पुनस्त्वरितमेतस्य पादान्तिकमुपागमम् ॥३१३॥ विमानरत्नमारूढो मनसोऽप्यधिकत्वरम् । किरीटो हेमकूटाख्यं क्षणादद्रीन्द्रमासदत् ॥३१४॥ तत्रैकच्छत्रसाम्राज्यसगर्वतिमिरे क्वचित् । वृक्षलक्षपरिक्षिप्ते प्रभुनः कन्दरेऽविशत् ॥३१५।। मर्त्यकीटेन ते देवि ! कृतसर्वाङ्गसङ्गतेः । मां विधाय धवं धातुरद्य पाप्मा विलुप्यताम् ॥३१६।। देवि ! विद्याधरी पाणिपल्लवोद्भूतचामरम् । वैडूर्यपुरसाम्राज्यमुपभोक्तुं प्रसीद मे ॥३१७॥ सद्यः कन्दलिते विद्यावैभवेन नवे नवे । प्रासादपर्वतोद्याने देवि ! क्रीड मया सह ॥३१८॥ देवि ! हित्वा प्रतीपत्वं द्वीपशैलाननेकशः । व्योमयानेन वीक्षस्व मदुत्सङ्गैकसङ्गिनी ॥३१९।। इति प्रभावती तत्र मेघनादः प्रसादयन् । ददृशे खेचरो वैरिकेतुना कपिकेतुना ॥३२०॥ पञ्चभिः कुलकम् । आ: पाप ! चापलं मुञ्च जीवितं विजहासि किम् ? । मम पत्युः पुरो हन्त ! पुरुहूतोऽपि कातरः ॥३२१॥ मत्कान्तराज्ये स्वाराज्यगर्वसर्वंकषे सति । स्तुतेविद्याधरादीनां न पदं राज्यसम्पदः ॥३२२॥
25
१. पापम् । २. प्रतिकूलताम् ।