________________
पञ्चमः सर्गः । प्रभावतीसर्पदंशम् ॥] आर्यपुत्रार्यपुत्राहं दृष्टा दुष्टात्मनाऽहिना ।
इति प्रलापवाचाला बाला मूर्च्छालतामगात् ॥२५८॥ ततः क्षितिपतिः क्षोभादवधीरितधीरिमा । क्रन्दन् विषागदङ्काराञ्जवादाह्वास्त विह्वलः ॥२५९॥ यावत्किञ्चिदुपक्रान्तं प्रचण्डैराहितुण्डिकैः । तावत्तेषामचैतन्यं पश्यतामेव साऽभ्यगात् ॥२६०॥ क्षणप्रीतस्य राज्ञोऽथ शोकः शतगुणोऽभवत् । कृतविध्यातदीपस्य तमो हि बहुलायते ॥ २६९ ॥ ततो विस्रस्तधम्मिल्लः क्षिप्रक्षौमो लुठद्भुजः । निमीलिताक्षो मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥२६२॥ अथ द्विगुणशोकस्य कोकस्येव दिनात्यये । लोकस्य दूरमुत्तस्थुराक्रन्दध्वनयोऽधिकाः ॥२६३॥ वीजितः परिवारेण वनान्तकदलीदलैः । कथञ्चित् कलयामास चैतन्यमवनीपतिः ॥ २६४॥ ततः प्रियतमां प्रीत्या कुर्वन्नुत्सङ्गसङ्गिनीम् । रोदयन्नटवीसत्त्वान् विललापेति भूपतिः ॥२६५॥ हन्त ! हेमाङ्गदे धातः ! कुतोऽपि कुपितोऽसि चेत् । ततः प्रथममस्यैव प्राणान्हरसि किं नहि ॥ २६६॥ प्राणेश्वर्याममुष्यां वा सत्यां हर्तुमनीश्वरः । मन्ये पूर्वं तदेतस्या जीवितव्यमपाहरः ॥२६७॥ देवि ! बुध्यस्व बुध्यस्व दीनो जल्पत्ययं जनः । किङ्करं न कदाचिन्मां त्वमवज्ञातपूर्विणी ॥२६८॥ कोपश्चेत् कोऽपि ते किंचिन्न स्वमागः स्मराम्यहम् । पुरावधीरितश्चास्मि नापराधशतैरपि ॥२६९॥
किं नाम तदकाण्डेऽपि न पश्यसि दृशाऽपि माम् । आसतां भवदुद्दामप्रेमपल्लविता गिरः ॥२७०॥
१. प्रथममस्या मे प्रत्यन्तरपाठोऽपि साधुः । २. अपराधम् ।
[ १८३
5
10
111
15
20
25