________________
१८२]
[पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य सहायः ॥ हिरण्यपुरभूपालहेमाङ्गदसर्मिणी । प्रभावती न खल्वेषा मणिचूडस्य सोदरा ॥२४५।। हन्त स्वसा ममैवेयमपरा वाऽस्तु साऽपि मे । कृपालोर्ननु सोदर्या वार्या व्यसनवारिधेः ॥२४६॥ तद्याहि ब्रूहि राजानं मा स्म खेदं वृथा कृथाः । अर्जुनः पाण्डवेयोऽयमाहर्ता तव गेहिनीम् ॥२४७॥ जानीहि हत एवायमिदानीमहितस्तव । तिग्मातेः परित्रस्तस्तमःस्तोमः क्व लीयते ? ॥२४८॥ क्षणं तद्भवताऽत्रैव स्थेयमव्यवसायिना । इत्युदीर्य पुनर्जिष्णुः प्रेषयामास केसरम् ॥२४९॥ सोऽपि प्रियावियोगार्त्तिप्रतप्ताय महीभुजे । कथयित्वा यथाऽऽदिष्टमुपार्जुनमुपागमत् ॥२५०॥ किंवदन्ती प्रभावत्याः सर्वां संविध विद्यया । व्योमाध्वना दधावेऽथ क्रोधाध्मातः कपिध्वजः ॥२५१॥ धनुधरैकधौरेये विद्याविस्फूजितोजिते । प्रियोपलम्भं सम्भाव्य जिष्णौ नाग्रेऽगमन्नृपः ॥२५२॥ अथ केऽप्यग्रकान्तारे गत्वा हृदयपीडया । भूवल्लभमभाषन्त प्रत्यागत्य तुरङ्गिणः ॥२५३।। दिष्ट्या त्वं वर्धसे देव झगित्यागम्यतां पुरः । अस्ति प्रभावती देवी कुर्वाणा कुसुमोच्चयम् ॥२५४॥ सम्पन्नहृदयाश्वासः सोऽथ त्वरितमभ्यगात् । मनोभीष्टे हि नेदिष्ठे को न धावति वस्तुनि ॥२५५॥ पुरः प्रभावती देवीमपश्यत् काश्यपीधवः । परं चानन्दसंदोहं गाहते स्मान्तरात्मना ॥२५६॥ प्रस्तौति प्रणयालापं यावदभ्येत्य भूपतिः । अकस्माद्दन्दशूकस्तामदशत् तावदुत्फणः ॥२५७॥
15
25
१. कथाम् । २. ज्ञात्वा । ३. समीपस्थे । ४. प्रीणाति प्रणयालापैः इत्येकप्रतिपाठः ।