________________
पञ्चमः सर्गः । केसरविद्याधरेण कथितः प्रभावत्यपहरणवृत्तान्तः ॥ ] आर्यपुत्रार्यपुत्रेति तदीयकरुणध्वनिः ।
समं हृदयशोकेन राजानमजजागरत् ॥२३२॥ भ्रुकुटीभीषणः कर्षन्कृपाणमकृपाशयः । दधावे भूधवश्चौर ! तिष्ठ ! तिष्ठेति विब्रुवन् ॥२३३॥ अपश्यंश्च पुरः किञ्चिद्धावित्वा कियतीं, भुवम् । फालच्युत इव द्वीपी तस्थौ दो: स्थाम निर्विदन् ॥२३४॥
ततो रिपुमपाकर्तुं प्रत्याहर्तुं च वल्लभाम् । तेन संवर्मयाञ्चक्रे चक्रं शक्रसमश्रिया ॥२३५॥ ततः कुतोऽप्यविज्ञातदयितादस्युपद्धतिः । किंकर्तव्यविमूढात्मा स तस्थौ पृथिवीपतिः ॥२३६॥ स्त्रीजातिस्नेहसङ्क्रान्तदुःखेवाथ निशीथिनी । जगाम तां धराधीशप्रेयसीमनुधाविता ॥ २३७॥ तत्याज राजलोकस्य हृदयेष्विव सर्वतः । सङ्क्रान्तः क्षणदाध्वान्तो रोदसीकन्दरोदरम् ||२३८|| प्रियापहारिणं हन्तुमुद्यतस्य महीपतेः । प्रतिग्रहमिवाधातुमधावत पतिस्त्विषाम् ॥२३९॥ तस्याः शिथिलधम्मिल्लमाल्यश्रेणि निपेतुषीम् । करैरदर्शयन् भास्वान् कृपयेवावनीपतेः ॥२४०॥ चचाल पृथिवीपालस्तया कुसुमलेखया । दर्शिताध्वा चमूध्वानैर्मक्षु कुक्षिभरिदिशाम् ॥ २४१ ॥ इयतीं भुवमायातः स पुष्पश्रेणिमाश्रयन् । अभाग्यस्य निधिश्रीवत्तस्यादृश्याऽत्र साऽप्यभूत् ॥२४२॥ तस्मिन्नस्तोकशोकार्त्तिविक्लवे विफलक्रियम् ।
कान्दिशीकं ततोऽनीकं भ्राम्यतीदमितस्ततः ॥२४३॥ सुदुःश्रवामुपश्रुत्य केसरस्येति भारतीम् । कपिकेतुः किमप्यन्तश्चिन्तयन्निदमब्रवीत् ॥२४४॥
१. निर्वदन्- निन्दन् प्रति० पाठः । २ मार्गः ।
[ १८१
5
10
15
20
25