SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [१७९ पञ्चमः सर्गः । गिरौअर्जुनकृता स्तुतिः मुनेः च देशना ॥] यथाविधि सुधीस्तिस्रः कृतपूर्वीप्रदक्षिणाः । समाहितमनाः सोऽयमानर्च वृषलाञ्चनम् ॥२०६॥ मृदङ्गपणवादीनि रचितोच्चण्डताण्डवाः ।। स्वच्छन्दं वादयामासुरातोद्यानि नभश्चराः ॥२०७।। खेचरेषु क्षणान्नीचैः कलसङ्गीतशालिषु । अथाभिष्टोतुमारेभे नाभेयं जिनमर्जुनः ॥२०८॥ देव ! दुःखाग्निनिर्दग्धजगत्पीयूषवारिद ! । फलेग्रहि विलोक्य त्वां नेत्रनिर्माणमद्य मे ॥२०९॥ तद्भाग्यमपि भूयोभि-र्भाग्यैरेवोपलभ्यते । येन त्वं दृश्यसे देव ! शेवधिः शिवसम्पदाम् ॥२१०॥ स्वामिन्पुरातनैर्भाग्यैर्बभूव तव दर्शनम् । त्वदर्शनभवैर्भावि यत्तु किं तस्य कथ्यते ॥२११॥ कृतस्तुतिरिति प्रह्वचेताः श्वेताश्ववाहनः । नमस्यति स्म नाभेयमवनिन्यस्तमस्तकः ॥२१२॥ प्रत्येकं स्वस्वसंस्थानमानवर्णादिशालिनः । नमश्चकार तीर्थेशान् त्रयोविंशतिमप्यसौ ॥२१३॥ भ्रश्यद्भवभ्रमीसादः प्रासादकमनीयताम् । निर्गत्यालोकयश्लाघां कुर्वन् भरतसम्पदः ॥२१४|| मूत्तं धर्ममिव ज्ञानज्योतिर्विश्वतमोपहम् । चारणं मुनिमेकान्तलीनमेकं ददर्श सः ॥२१५॥ युग्मम् । सोऽभिवन्द्य तमानन्दादुपविश्य तदन्तिके । भवाम्भोधितरीकल्पामश्रौषीद्धर्मदेशनाम् ॥२१६।। धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः । चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥२१७॥ जगद्भयंकरस्मेरमुखः संसारकेसरी ।। धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥२१८॥ 15 १. अर्जुनः । २. खेदः । ३. अन्तपुररक्षकः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy