________________
१७८]
[पाण्डवचरित्रमहाकाव्यम् । अष्टापदगिरौ आदिनाथस्यार्चा ॥ तैस्तैस्तद्भक्तिकल्लोलैः प्रथमानैः पृथासुतः । बहून् मुहूर्तवत्तत्र वासरानत्यवाहयत् ॥१९३॥ मणिचूडमथान्येधुर्मन्युपर्यश्रुलोचनम् । आपपृच्छेऽप्यनिच्छन्तं पार्थस्तीर्थदिदृक्षया ॥१९४॥ ततो विमानमारुह्य जिष्णुर्वधिष्णुधर्मधीः । ऐनःसेनाभिरस्पृष्टमष्टापदगिरं ययौ ॥१९५॥ भगवानादितीर्थेशो यत्र पत्रलभूरुहि । चिरं विश्रान्तिमातेने निर्वाणनगराध्वगः ॥१९६॥ किन्नरीः कान्तकेलीषु तमस्तोमाभिलाषिणीः ।
खेदयन्ति सदोद्द्योता यस्य काञ्चनकन्दराः ॥१९७॥ नाभेयदर्शिनः काम्यकन्दरोद्यानखेलिनः । स्वर्गिवर्गस्य भाग्यानां जन्मभूर्भोगभूश्च यः ॥१९८।। तस्मिन्पवितुमात्मानमायातैस्तोयदैरिव । आनीलबहलच्छायैः काननैः परिवेष्टितम् ॥१९९।। लीलावापीभिरभ्यस्तक्षीरोदक्षीरकेलिभिः । स्मेरदम्भोजखण्डाभिर्मण्डितोपान्तभूतलम् ॥२००॥ ददर्श दर्शनोन्मृष्टनिःशेषजनकल्मषम् । प्रासादमादिनाथस्य पार्थो भरतकारितम् ॥२०१॥ त्रिभिर्विशेषकम् । सपरीवार एवायं राजीववनराजिनि । दीर्घिकावारिणि स्नानमाततान ततः सुधीः ॥२०२॥ हेमाम्भोजततीदिव्यशाखिनां कुसुमानि च । अथावचाययाञ्चक्रे परिवारनभश्चरैः ॥२०३।। धीमानवस्त पर्यस्तदुग्धोदलहरीमदे । स धौतवाससी दिव्ये निजं मन इवामले ॥२०४॥ सर्वस्वर्गिगणाकीर्णे सर्वाश्चर्यनिकेतने । सर्वरत्नमये तस्मिन् स विवेश जिनौकसि ॥२०५॥
१. शोकः । २. पापसमूहैः । ३. उन्मुष्टं-ध्वस्तम् । ४. तति-श्रेणिः । ५. पर्यदधात् । ६. पर्यस्तः निरस्तः ।
15
20
25