________________
१७२]
[पाण्डवचरित्रमहाकाव्यम् । मणिचूडकृत विद्योपदेशः ॥ तमन्वगाद्विसृष्टाऽपि प्रसह्य पितृवेश्मनि । चन्द्रानना प्रिया तस्य कुलस्त्रीणां व्रतं ह्यदः ॥११५॥ सोऽस्मिन् पदाभ्यामभ्येत्य रत्नसानुगिरौ क्रमात् । संसारमरुकल्पद्रुमद्राक्षीद् वृषभध्वजम् ॥११६॥ पुण्यपाथेयमादाय नाभिनन्दनदर्शनात् । साम्प्रतं सोऽहमिच्छामि स्वर्लोकपथपान्थताम् ॥११७॥ इयं तु मे प्रिया चन्द्रानना प्रणयकातरा । प्राणत्यागाय गच्छन्तं मां रुणद्धि पुन:पुनः ॥११८॥ असौ मन्मृत्युमत्यन्तमनलंभूष्णुरीक्षितुम् । विहातुमीहते प्राणान् हन्त प्रथममेव हि ॥११९॥ दयां मयि तदाधाय बन्धो ! सम्बोध्यतामियम् । येनासूनाशु मुञ्चामि प्रस्थेऽस्मिन् सार्वकामिके ॥१२०॥ अथोज्जगार गाण्डीवी भाले ताण्डवयन् ध्रुवौ । . कोऽयं मरणनिर्बन्धो बान्धवे मयि सत्यपि ? ॥१२१॥ अपि देवेन्द्रदेशीयै(य)र्मार्गणैर्वैरिणं रणे । निहत्य वितराम्येष पैतृकी ते पुनः श्रियम् ॥१२२॥ अवैधव्याध्वरे नित्यदीक्षितेयं मृगेक्षणा । चिरं त्वदङ्गसङ्गेन दत्तानन्दा च नन्दतु ॥१२३॥ बभाण मणिचूडोऽथ भ्रातरस्यास्तवाकृतेः ।। असाध्यं नाम नास्त्येव स्वाराज्यमपि तेऽन्तिके ॥१२४॥ किं तु व्योमाङ्गणस्वैरसञ्चाराः खेचराः खलु । शक्यन्ते ते पराजेतुं न विद्यैश्वर्यवजितैः ॥१२५॥ ततोऽनवद्य ! मे विद्यास्त्वं गृहाण यथाविधि । साधिताशेषविद्यस्य द्विषन्नीषज्जयः स ते ॥१२६॥ तासां सत्त्वैकसाध्यानां विद्यानां च त्वमास्पदम् । वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ॥१२७॥
15
20
25
१. स्वर्गराज्यम्।