SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । युवानेन कथितो मणिचूडस्य वृत्तान्तः ॥ ] बीभत्सुरभ्यधाद्भूयः स्खलितव्यं नहि त्वया । परिज्ञाय कुरून् विश्वदुःखत्राणैकदीक्षितान् ॥१०२॥ ससौष्ठवं तदाकर्ण्य वचः स पुनरब्रवीत् । वैताढ्ये दक्षिणश्रेण्यामस्ति रत्नपुरं पुरम् ॥१०३॥ वैरिदोर्दण्डकण्डूतिवैद्यो विद्याधरेश्वरः । ख्यातश्चन्द्रावतंसाख्यस्तत्र धात्रीधवोऽभवत् ॥१०४॥ पतिव्रतामयं ज्योतिः सौभाग्यव्रतदेवता । मूर्त्तेव श्रीरभूत्तस्य प्रिया कनकसुन्दरी ॥१०५॥ वात्सल्यवाहिनीसिन्धुर्मणिचूडस्तयोः सुतः । आसीत् कन्दलितानन्दा नन्दना च प्रभावती ॥१०६ ॥ कुमारः केलिलीलाभिः सोऽतिवाहितशैशवः । पितृभ्यां ग्राहयामास गुरुभ्यः सकलाः कलाः ॥१०७॥ लावण्यसरसीं पुण्यतारुण्यवनसानुमान् । चन्द्राननामुपायंस्त चन्द्रापीडसुतामसौ ॥१०८॥ दत्ता प्रभावती साऽपि कलाकुलनिकेतनम् । हिरण्यपुरनाथाय हेमाङ्गदमहीभुजे ॥१०९॥ कुलक्रमागताः सर्वाः पति विद्याः परेद्यवि । मणिचूडकुमाराय विततार तरस्विने ॥११०॥ तस्मिन्नसिद्धविद्येऽपि साधनक्रमवेदिनि । सद्यो माद्यद्गदावेगः पिता लोकान्तरं ययौ ॥१११॥ क्लृप्ताभिषेकसम्भारः प्रेक्षमाणः शुभं क्षणम् । न यावत्पदमात्मीयं सोऽध्यासामास पैतृकम् ॥ ११२॥ तावदागत्य दायादः खेचरानीकिनीवृतः । विद्युद्वेगस्तमाक्रम्य नगरान्निरवासयत् ॥११३॥ दायादहृतसाम्राज्यं त्याज्यमेतद्वपुर्मया । इत्यन्तश्चिन्तयन् दुःखादेकाङ्गः सोऽचलत्ततः ॥११४॥ १. निर्गमितबाल्यावस्थः । २. व्याधिः । [ १७१ 10 5 151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy