________________
१६८]
[पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य प्रयाणः ॥ सञ्चरन् पुरुषान् पश्यन् प्रतिस्थाननवान्नवान् । विद्याः कीर्तीश्च लक्ष्मीश्च नूतनाः काश्चिदर्जयेः ॥६३॥ तथा किमपि माकार्षीभ्रंमन् देशाननेकशः । यथा नाथ वयं स्याम वैमनस्यवशंवदाः ॥६४॥ पावितं सुकृतैर्नानातीर्थाभिगमजन्मभिः । त्वामुपागतमालिङ्ग्य मयाऽऽत्मा पावयिष्यते ॥६५॥ मया ते स्खलितस्वैरसञ्चारस्य पदे पदे । मा भूत्पुण्यक्रियाविघ्न इत्यागच्छामि नो समम् ॥६६॥ इति ब्रुवाणां प्रणयप्रवीभूतान्तराशयाम् । आलिङ्ग्य मुहुरालप्य वचोभिः स्नेहनिभरैः ॥६७॥ अनुव्रजन्तीं दयितामवस्थाप्य कथञ्चन । प्रतस्थे पुरतः पार्थः सतूणधृतकार्मुकः ॥६८॥ युग्मम् । आलोचनपथात् पार्थं पथिकं सा पपौ दृशा । प्रेम्णा सोऽप्यचलन्मन्दमन्दं वलितकंधरः ॥६९॥ मन्द्रारघट्टनिर्घोषशिखण्डिकृतताण्डवान् । माद्यन्मध्रुव्रतव्रातझङ्कारमुखरोदरान् ॥७०॥ सान्द्रनैकद्रुमच्छायानिपीततपनातपान् । पश्यन् परिसरारामान् स जगाम शनैः शनैः ॥७१॥ युग्मम् । तीरप्ररोहसानन्दमाकन्दप्रायपादपम् । कूजत्कुरर-हारीत-कपिञ्जल-जलद्विकम् ॥७२॥ तारुण्ये तरणेः क्षोणिमतीत्य कियतीमपि । पार्थः क्षीरोददायादमाससाद महासरः ॥७३।। युग्मम् । तत्राङ्गशौचमाधाय प्रणिधाय जिनेश्वरम् । आहारं सरसैस्तैस्तैः फलौघैः फाल्गुनो व्यधात् ॥७४॥ असङ्गभृङ्गसङ्गीतमतिमुक्तकमण्डपम् । सपुष्पतल्पमध्यास्यं स मध्यंदिनमत्यगात् ॥७५॥
15
20
25
१. गम्भीरध्वनिः । २. द्विकः काकः । ३. क्षीराब्धिसदृशम् ।