SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १६४] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य प्रार्थनाभङ्गः ॥ नम्रीभूतशिरः पक्वशालिकेदारकं बभौ । जनकस्येव जीमूतकालस्य विरहासहम् ॥११॥ जिगीषुनृपसैन्याश्वरजोमलिनमम्बरम् । अहसन्नमलाः स्मेराम्भोजव्याजाज्जलाशयाः ॥१२॥ दिशः शरदमायातां चिरात् प्रियसखीमिव । आलपन्त्य इवैक्ष्यन्त सरसैः सारसारवैः ॥ १३॥ मरालैः कमलोत्तंसाः सरस्यः पुनराश्रिताः । सेव्यते हि प्रभुः प्रायो विशदैरपि सम्पदि ॥१४॥ दृप्तसप्तच्छदामोदा विरेजुर्वनभूमयः । क्रीडत्कामेभसम्भूतदानाम्भः सौरभा इव ॥१५॥ सम्पन्नसर्वसस्यौघमण्डितां पाण्डूसूनवः । शरदं निर्विशन्ति स्म शश्वदुद्यानकेलिभिः ॥१६॥ गोचरेऽर्पररात्रस्य निर्गतं बहिरन्यदा । समस्तमप्यपाहारि तस्करैः पुरधैनुकम् ॥१७॥ तत्क्षणाद्दक्षिणेर्माणस्तस्करश्रेणिमार्गणैः । भूशक्रस्यैत्य पूच्चक्रुर्मन्दिरद्वारि वल्लवाः ॥१८॥ तदीयध्वनिमाकर्ण्य कर्णयोः क्रकचोपमम् । उज्झाञ्चकार बीभत्सुर्निद्रातन्द्रालुतां क्षणात् ॥१९॥ ततो जीवधनं दस्युहृतं विज्ञाय तन्मुखात् । शौण्डीरचूडामाणिक्यमन्तर्जज्वाल फाल्गुनः ॥२०॥ अर्जुनेन प्रजाकार्ये प्राणानपि जिहासता । तदा समयभेदोऽपि सानन्दमुररीकृतः ॥२१॥ ततो धनुः सतूणीरमादातुं फाल्गुनोऽविशत् । वासवेश्मनि कृष्णायाः क्रोडक्रीडत् युधिष्ठिरे ॥२२॥ आदाय विजयस्तस्मान्निजतूणीरकार्मुके । तस्करानुपदं वीरः क्रोधावेशादधावत ||२३|| १. रात्रिचरमसमये । २. पारधिना दक्षिणपार्श्वेविद्धो मृगो दक्षिणेर्मोच्यते स प्राणधारणे निराशो भवति तत्सदृशा इमे वल्लवाः - गोपाः । ३. प्रतिज्ञाभङ्गः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy