SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । पाण्डवानां क्रीडाः ॥] [१६३ पञ्चमः सर्गः ॥ अथानुजग्मुषां तेषामन्वहं समयं मुनेः । परस्परमभूत्प्रीतिरखण्डा. पाण्डुजन्मनाम् ॥१॥ मनोभिः पञ्चभिस्तेषां कृतमेकं महन्मनः । तेनैव नियतं ख्याता महामनस इत्यमी ॥२॥ अवश्यमेक एवात्मा तासु मूत्तिषु पञ्चषु । न खल्वेकैव पत्नी स्याद्भूयसां पतिदेवता ॥३॥ अविशेषकृतोपास्तिः शशिलेखेव शूलिनाम् । निष्कलङ्कव पाञ्चाली तेषामासीदतिप्रिया ॥४॥ पतिव्रता न गङ्गाऽपि हरादम्भोधिमीयुषी । श्रयन्ती हन्त पञ्चापि द्रौपदी तु पतिव्रता ॥५॥ पञ्चभ्योऽपि क्रमात्तेभ्यः प्रियेभ्यस्त्रिजगतप्रियान् । लोकपालोपमान् पञ्च पाञ्चाली प्रापदात्मजान् ॥६॥ पाञ्चालीलब्धजन्मत्वात् पृथग्भिन्नाभिधा अपि । : एते पञ्चापि पाञ्चाला इति पप्रथिरे भुवि ॥७॥ सौभ्रात्रं पाण्डुपुत्राणां द्रौपद्याश्च सतीव्रतम् । । अवलोकितुकामेव ततः शरदुपागमत् ॥८॥ भेजे विप्रोषितप्रावृड् भुजङ्गीविषवल्गितैः । औषधीशकरामर्शादिव वैशद्यमम्बुदैः ॥९॥ घनोपरोधनिर्मुक्तो ध्वस्तध्वान्तरिपुः शशी । ... भाति स्म दिग्वधूक्षिप्तैर्नक्षत्रैरक्षतैरिव ॥१०॥ १. चन्द्रकिरणस्पर्शात् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy