SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 5. 10 १६२ ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् मर्यादा स्वीकारः ॥ कथञ्चिदथ यः कोऽपि भिनत्ति समयं यदि । वनवासाय गन्तव्यं तेन द्वादशवत्सरीम् ॥ ४६६॥ मुनेर्गिरमिमां काममायतिक्षेमकारिणीम् । अनुमेने मुकुन्दोऽपि कौन्तेयानां हितेच्छया ||४६७॥ तां वाचमुररीचक्रुर्वाचंयमपतेर्मुदा । पाण्डवा अपि, को नाम नात्मनीनाय धावति ? ॥४६८॥ मुनीन्द्रोऽपि यथार्थाभिराशीर्भिरभिनन्द्य तान् । विकस्वरमनाः स्वैरमुत्पपात विहायसा ॥४६९॥ कामं हृष्यन् हृषीकेशोऽप्युपचारैरनेकशः । पाण्डुं पाण्डुतनूजानप्यापृच्छय द्वारकां ययौ ॥४७०॥ इति समयनिरुद्धकामचाराः प्रणयप्रह्वधियः परस्परेण । सहविहितसमस्तकेलिरम्यं गमयन्ति स्म दिनानि पाण्डवेयाः ॥ ४७१॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीस्वयंवरवर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥ १. आत्महिताय ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy