________________
चतुर्थः सर्गः । पाण्डवान् प्रति नारदकृतोपदेशः ॥]
[१५९ स्थानस्थानोल्लसन्मञ्चविमानितविमानकम् । ककुप्कुक्षिभरिक्षुभ्यन्नादकम्पितमानकम् ॥४२७॥ प्रेक्षाकौतूहलाहूतनारीनयनपङ्क्तिभिः । नवेन्दीवरकेदारकरम्बितमिवाभितः ॥४२८॥ अनुयातः सहायातस्वजनोर्वीशमण्डलैः । तैः सदारैः कुमारैश्च पाण्डुः स्वपुरमाविशत् ॥४२९॥ चतुभिः कलापकम् । विहाय कृष्णं सत्कृत्य हास्तिका-ऽश्वीय-काञ्चनैः । विससर्ज स्वदेशेभ्यः सर्वं राजाऽथ राजकम् ॥४३०॥ लीलाशैलोच्चयोद्यानकेलिवापीषु पाण्डवाः । दिनान्यतीयुः क्रीडन्तः समं कृष्णेन यामवत् ॥४३१॥ अथालोच्यायति स्नेहात् कृष्णः शुभफलोदयाम् । समाहूय रह: किञ्चिद् यावद् वद पाण्डवान् ॥४३२॥ तावद्व्योम्ना महःपुञ्जधौतदिक्कुज्जकालिमा । आययौ नेत्रपीयूषनीरदो नारदो मुनिः ॥४३३॥ प्रीतान्तःकरणः काममभ्युत्थानासनादिभिः । पाण्डवेभ्योऽनुशिष्टि स विततार हरेगिरा ॥४३४॥ आकर्ण्य कर्णपीयूषं युष्मदुद्वाहमङ्गलम् । प्राप्तोऽस्मि परमब्रह्मलयादप्यधिकां मुदम् ॥४३५॥ वत्साः ! किन्त्वेकजानित्वं किञ्चिदन्तर्दुनोति वः । वैरवारिधरोल्लासप्रावृषः खलु योषितः ॥४३६।। आरूढस्य परां प्रौढिं बन्धुस्नेहमहीरुहः । हन्त दावानलज्वालामाहुर्मंगविलोचनाम् ॥४३७॥ स्रोतस्विनीप्रवाहाणामिव बान्धवचेतसाम् । द्वैधीभावकरी शैलतटीव तरलेक्षणा ॥४३८।। वत्साः ! कुटुम्बसंहारकारणं हरिणेक्षणा । यथा समभवत् पूर्वमाकर्णयत तां कथाम् ॥४३९॥