________________
चतुर्थः सर्गः । द्रौपदी-विवाहः ॥]
[१५७ उत्पाट्य योषितो हर्षादिमां मातृगृहेऽनयन् । आसयंश्च स्मरस्मेरलोचनां काञ्चनासने ॥४०१॥ पाण्डवा अपि निर्वृत्तवर्णकोद्वर्णकक्रियाः । निर्माय मङ्गलस्नानमामुक्तोचितभूषणाः ॥४०२॥
औपवाह्यानथारुह्य वारणेन्द्रान् पृथक्पृथक् । समं पञ्चापि पाञ्चालीं परिणेतुं प्रतस्थिरे ॥४०३॥ युग्मम् । मौलिनीलमणिज्योतिर्भानुज्योति:पराहतम् । मूर्जीव पिण्डितं तेषां मायूरच्छत्रमाबभौ ॥४०४॥ रेणुर्मङ्गलतूर्याणि पुरस्तेषामनेकशः । तारैराकारयन्तीव दिशामीशान् प्रतिस्वनैः ॥४०५॥ पश्चादुच्चेरुरद्रीन्द्रकन्दरा दारणोल्बणाः ।। शात्रवावस्थितिक्रोधादिव निस्वाननिस्वनाः ॥४०६।। सर्वंकषेषु तेजस्वितेजसां पाण्डुसूनुषु । पतन्ति नित्यमेतस्य जगत्यां किममी कराः ॥४०७॥ मिलत्स्वजनभूपालतुरङ्गमखुरोद्धतः । इतीव स्थगयामास पांशुरंशुमतो वपुः ॥४०८॥ युग्मम् । अध्यासितुं मदश्रो(स्रो)तो भूषा कुसुमदाम च । सामन्तसामजेन्द्राणां द्विरेफाः समशेरत ॥४०९॥ स्वजनोर्वीपतिश्वेतच्छत्रैश्छन्नं नभो बभौ । विवाहमीक्षितुं सर्वराकेन्दुभिरिवागतैः ॥४१०॥ ध्वजैविरेजे वेल्लद्भिरनुकूलेन वायुना । द्रौपदीकौतुकागारवर्तनीदेशकैरिव ॥४११॥ नारीमङ्गलसङ्गीतश्रवणप्रवणाश्चिरम् । सादिनं खेदयामासुस्ते पैतङ्गतुरङ्गमाः ॥४१२॥ तदा कुन्ती च माद्री च गान्धारीप्रमुखा अपि । शृङ्गारैरद्भुतैः प्रापुर्दिव्या(देवा)नामप्यवेक्ष्यताम् ॥४१३॥
१. दध्वनुः 'रण' शब्दे [हैमधातुपाठाङ्क २६०,] इति धातोः परोक्षारूपमेतत् । २. वाजिंत्रध्वनयः । ३. सूर्यस्य । ४. सूर्यस्य । ५. सूर्याऽश्वाः ।