SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५६] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी-विवाहः ॥ पाण्डवानां वधूलाभे दधुः स्वजनभूभृतः । विकासमुदये भानोररविन्दाङ्करा इव ॥३८८॥ अथ वैवाहिकं कर्म प्रारभेते स्म तत्क्षणात् । पाण्डुः पाञ्चालभूपश्च लक्ष्मीसम्भारभासुरम् ॥३८९॥ प्रमोदोत्फल्लनेत्राभिः सौधमानीय सादरम् । पाञ्चाली कुलवृद्धाभिः स्नानपीठे न्यवेश्यत ॥३९०॥ उगिरन्ती बहिःस्नेहं पाण्डुपुत्रेष्विवाऽऽन्तरम् । कृष्णा सुगन्धिभिस्तैलैः कृताभ्यङ्गा स्म भासते ॥३९१॥ तस्याः पिष्टातकक्षोदक्षरदुद्वर्तनीमिषात् । विक्षिप्तं यौवनेनाङ्गात् खण्डयित्वेव शैशवम् ॥३९२॥ रतेरिव निधानानि श्रीखण्डतिलकान् नव । तस्याः सहर्षमङ्गेषु चक्रिरे कुलयोषितः ॥३९३॥ नवीनयौवनावासहेतोरिव तदङ्गके । तर्कुसूत्रमिषात् सूत्रं स्वगोत्राऽविधवा दधुः ॥३९४॥ जृम्भते स्म भृशं विश्वश्रोत्रपीयूषवर्षिणः । कुललीलावतीवर्गमङ्गलध्वनयस्तदा ॥३९५।। चिक्षिपुः कुलवामाक्ष्यो द्रौपदीमिति वर्णके । तथैव तस्याः सानन्दमुवर्णकमपि व्यधुः ॥३९६॥ अथान्तःक्षिप्तकर्पूरकस्तूरीकुङ्कमैरिमाः । वारिभिः स्नपयाञ्चक्रुः कवोष्णैनित्ययौवनाम् ॥३९७॥ मार्जितं गन्धकाषाय्या पाञ्चाल्याः शुशुभे वपुः । नवमाणिक्यपाञ्चाल्या इव तत्कालसंस्कृतम् ॥३९८॥ आचार इति तास्तैस्तैर्भूषणैस्तामभूषयन् । नहि प्रकृतिरम्याणामाहायः काऽप्यलंकृतिः ॥३९९॥ लावण्यवारिधाराभिर्वर्षन्तीव दशामिषात् । पारिणेत्रदुकूलानि सा तदा पर्यधाप्यत ॥४००॥ 15 25 १. कमलाकराः । २. कृत्रिमैः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy