________________
[१५५
चतुर्थः सर्गः । द्रौपदी-निदानम् ॥]
तपोऽथ कुर्वती नित्यं तुर्य-षष्ठाऽष्टमादिकम् । आर्यिकाभिः सहैताभिर्विहारमकरोदियम् ॥३७५॥ आर्यास्ताः सा कदाऽप्यूचे तनोम्यातापनामहम् । सुभूमिभागोद्यानस्था दत्तदृष्टिविवस्वति ॥३७६।। सा प्रत्यभिदधे ताभिरिति ह स्मागमोक्तयः ।। आतापना न साध्वीनां कल्पते वसतेर्बहिः ॥३७७।। अनाकर्ण्य च तद्वाचं वने तस्मिन्नुपेत्य सा । यावदारभते क्षिप्तचक्षुरातापनां रवौ ॥३७८॥ तावदुत्सङ्गमेकस्य श्रयन्तीमपरस्य तु । अङ्के न्यस्ताघ्रिमन्येन बध्यमानावतंसकाम् ॥३७९।। परेण विधृतच्छत्रां वीजितामितरेण च । गणिकामागतं तत्र देवदत्तां ददर्श सा ॥३८०॥ त्रिभिविशेषकम् । तां वीक्ष्यापूर्णभोगेच्छा निदानमिति साऽकरोत् । भवेयं तपसाऽनेन पञ्चप्रेयस्यसाविव ॥३८१॥ तन्वती देहशौचाद्यमभ्युक्षन्ती क्षणे क्षणे । वार्यमाणेयमार्याभिर्मनसीदमधारयत् ॥३८२॥ पुरा बहुमताऽभूवमार्यिकाणामगारिणी । तिरस्कुर्वन्ति मामेता भिक्षुकीमधुना पुनः ॥३८३॥ इत्यालोच्य विनिर्गत्य विभिन्नवसतिस्थिता । व्रतं सा पालयामास चिरं स्वच्छन्दवर्तिनी ॥३८४॥ मासान् संलेखनामष्टौ कृत्वाऽनालोच्य संस्थिता । नवपल्योपमायुष्का सौधर्मे देव्यभूदियम् ॥३८५।। च्युताऽभवच्च कृष्णेयं प्राचीनाच्च निदानतः । भर्तारो जज्ञिरेऽमुष्याः पञ्चैते कोऽत्र विस्मयः ? ॥३८६॥ इत्येतां गिरमुद्गीर्य जगाम नभसा मुनिः । कुर्वते चिरमेकत्रावस्थिति नहि तादृशाः ॥३८७।।
१. मृता ।