________________
[१५३
चतुर्थः सर्गः । सुकुमारिकाभवे तस्याः दशा ॥]
कासश्वासज्वरोत्कम्पकुष्ठाद्यैः क्रान्तविग्रहा । रोगैः षोडशभिर्लेभे साऽत्रैव नरकव्यथाम् ॥३४८॥ क्षुत्पिपासादिता लोकैनिन्द्यमाना पदे पदे । दुःखं भ्रमन्ती सा मृत्वा षष्ठं नरकमासदत् ॥३४९।। तस्मादुत्पद्य मीनेषु सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य तस्मिन्नेव जगाम सा ॥३५०॥ द्विद्विरेवं सिषेवेऽसौ नरकान् सकलानपि । पृथ्वीकायादिषूत्पेदे तदुद्वृत्ता च भूरिशः ॥३५१॥ चम्पायामथ सा कर्मलाघवात् सुकुमारिका । सुता सागरदत्तस्य सुभद्राकुक्षिभूरभूत् ॥३५२॥ जिनदत्तात्मजस्तत्र भद्राजश्चास्ति सागरः । वेश्मस्थां तत्पिताऽन्येधुर्ददर्श सुकुमारिकाम् ॥३५३॥ तनयस्य मदीयस्य योग्येयमिति चिन्तयन् । सह बन्धुभिरभ्येत्य पितरं तामयाचत ॥३५४॥ सोऽप्यूचेऽतिप्रिया मेऽसौ न भवाम्यनया विना । ममास्तु गृहजामाता सागरस्तत् तवात्मजः ॥३५५।। सुतमालोचयामीति जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्यच्च मौनमालम्ब्य स स्थितः ॥३५६॥ अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय गृहजामातरं सुतम् ॥३५७॥ आश्चर्यकृत् तयोर्जज्ञे पाणिग्रहमहोत्सवः । नक्तं शिश्रियतुस्तौ च पल्यङ्गं वासवेश्मनि ॥३५८॥ पूर्वकर्मवशात् तस्याः स्पर्शमङ्गारसोदरम् । आसाद्य सागरस्तस्थौ क्षणं तत्र कथञ्चन ॥३५९॥ तस्यां सुखप्रसुप्तायां स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्तमपश्यन्ती च सा भृशम् ॥३६०॥ अथादिष्टा तयोर्दन्तशौचहेतोः सुभद्रया । प्रातरैक्षिष्ट तां चेटी रुदन्तीं वल्लभोज्झिताम् ॥३६१॥