________________
१५२]
10
[पाण्डवचरित्रमहाकाव्यम् । नागश्रीवृत्तान्तः ॥ वृथा मा भूदिदं तावद्भवेदेषोऽपि तोषितः । इत्यालोच्य तया तस्मै तत्तुम्बीव्यञ्जनं ददे ॥३३५॥ अपूर्वमिति सञ्चिन्त्य तद्ग्रहानुग्रहेच्छया । असौ वसतिमागत्य गुरूणां तददर्शयत् ॥३३६॥ तेऽपि तदगन्धमाघ्राय वात्सल्यादिदमूचिरे । यदीदं भोक्ष्यसे वत्स ! सद्यो मृत्युमवाप्स्यसि ॥३३७॥ विशुद्ध स्थण्डिले मङ्घ तत्परिष्ठापय क्वचित् । इत्यादेशाद्गुरोः सोऽपि जगाम नगराद् बाहिः ॥३३८॥ बिन्दौ निपतिते तस्य कथञ्चित् तत्र पात्रतः । सक्ताः स मुनिरद्राक्षीम्रियमाणाः पिपीलिकाः ॥३३९।। दध्यौ च बद्धसंवेगो बिन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता तत्सर्वं किं करिष्यति ? ॥३४०॥ वरमेकस्य मे मृत्युः कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाञ्चस्तदसौ बुभुजे स्वयम् ॥३४१॥ सिद्धप्रत्यक्षमालोच्य समाधिमधुरं मनः । दधत्सर्वार्थसिद्धेऽगान्मुनिः प्राणान् विहाय सः ॥३४२॥ बहिर्धर्मरुचेः कस्माद्विलम्ब ? इति वेदितुम् । गुरुः श्रीधर्मघोषोऽथ निदिदेश परान् मुनीन् ॥३४३॥ तं परासुं बहिर्वीक्ष्य तद्रजोहरणादिकम् ।
आदाय गुरुपादानां तेऽपि सर्वं न्यवेदयन् ॥३४४॥ विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् । सर्वं मुनीनां नागश्रीवृत्तान्तं तेऽप्यचीकथन् ॥३४५॥ ज्ञात्वा कथञ्चिल्लोकानां वाक्परम्परया जनाः । सोमदेवादिविप्राणां तस्या दुश्चेष्टितं जगुः ॥३४६॥ काममाक्रुश्य विप्रास्ते तां गृहान्निरवासयन् । लोकैधिक्रियमाणा च साऽपि बभ्राम सर्वतः ॥३४७॥
25
१. आग्रहः ।