________________
१५०]
[ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य विजयः ॥ साकाङ्क्षमथ पश्यन्ती दृशः कोणेन कोटिशः । सुतान् पञ्चापि पाञ्चाली पाण्डोरुद्दण्डविक्रमान् ॥३०९॥ रोमहर्षमिषान्नव्यस्मराङ्करकरम्बितम् । वपुर्लीलावनं भूम्ना सिञ्चन्ती स्वेदवारिभिः ॥३१०॥ स्वैरमुज्जृम्भितस्तम्भा पृथुप्रथितवेपथुः । मदौत्सुक्य-त्रपा-हर्षसाध्वस-स्फारचारिमा ॥३११।। वरीतुकामा पञ्चापि लोकनिर्वादशङ्किता । दौवारिकीकराब्जाभ्यां कण्ठपीठे किरीटिनः ॥३१२॥ वरमालां निचिक्षेप सा तु दिव्यानुभावतः । लोकैः प्रत्येकमेकाऽपि तेषां कण्ठेष्वदृश्यत ॥३१३।। (पञ्चभिः कुलकम्) उच्चचार ततस्तारा व्योम्नि वागशरीरिणी । साधु साधु वृतं राजकन्यया मा स्म शक्यताम् ॥३१४।। चिन्ता चतुर्णामन्येषामनुरूपा स्नुषाऽस्तु मे । इदानीमपयातेयमिति कुन्ती मुदं दधौ ॥३१५॥ किमेषामपि भाग्येन दत्तभूयिष्ठसौष्ठवः । कर्मेदमादधे जिष्णुरिति पाण्डुर्विसिष्मिये ॥३१६॥ परिवेत्ता भविष्यामि नाहमुद्वाहशालिनि । तपःसुते च भीमे चेत्यप्रीयत कपिध्वजः ॥३१७॥ पञ्चभ्यस्तनयामेकां नाऽमीभ्यो दातुमुत्सहे । ददानो हि गमिष्यामि साधूनामुपहास्यताम् ॥३१८॥ वरमाला च पञ्चानामपि कण्ठे लुलोठ सा । दिव्यवाक् केयमुत्तस्थौ तत्कि नाम भविष्यति ॥३१९।। इति चिन्तातुरो यावदभूद् द्रुपदभूपतिः । । चारणश्रमणः कश्चित्तावदागादिवोऽध्वना ॥३२०॥ त्रिभिर्विशेषकम् । दिशः काञ्चनकान्ताभिर्दिहानं देहकान्तिभिः । परमज्योतिषः प्रान्तं विवर्तमिव मूर्त्तताम् ॥३२१॥
१. सहितम् । २. प्राप्तस्तब्धता । ३. सुन्दरता । ४. महती । ५. परिवेत्ताऽनुजोऽनूढे जेष्ठे दारपरिग्रहात् इत्यमरः । ६. लिम्पन्तम् ।
15
20
25