________________
चतुर्थः सर्गः । राधावेधस्य सिद्धिः ॥]
[१४९ लक्ष्यीकुर्वन् नमद्वक्त्रो राधाया वाममीक्षणम् । ऊर्वीकृत्य दृशं पूर्वां वक्षोऽन्तम(र) परां नयन् ॥२९६॥ कटाक्षैः सह कृष्णायाः कुन्त्याः प्रस्रवनिझरैः । पितुरानन्दबाष्पैश्च चकर्ष धनुरर्जुनः ॥२९७॥ त्रिभिर्विशेषकम् । तथाभूतः स भाति स्म हन्तुं देवानिवोद्यतः । दीनं च तन्मुखाम्भोजमनीक्षितुमना इव ॥२९८।। अदभ्रसम्भ्रमैः कैश्चिदासनात् पतयालुभिः । स्थगयद्भिः श्रुती पाणिपल्लवाभ्यां च कैश्चन ॥२९९॥ उद्बुद्धसाध्वसैः कैश्चित्परिभ्रष्टोत्तरीयकैः ।
अतिभूरिभयोद्धान्तैर्वेपमानैश्च कैश्चन ॥३००॥ भिन्दानोऽद्रितटीस्तन्वन् शब्दाद्वैतमयं जगत् । फाल्गुनाकृष्टकोदण्ड–कारः श्रूयते स्म सः ॥३०१॥ त्रिभिर्विशेषकम् । मन्ये तस्माद्धनुर्वानात् त्रस्तैरश्वैर्विवस्वतः । एकचक्रो रथश्चक्रे मेरोरास्फाल्य सानुषु ॥३०२॥ भुजैः सह महीशानां मार्गणो गुणमत्यजत् । बिभेद मक्षु लक्ष्यं च तदीयहृदयैः समम् ॥३०३॥ क्षणादूर्ध्वं शरः प्राप शरव्यं सव्यसाचिनः । लोकाग्रं पुनरासेदुर्भुजविस्फूर्तिकीर्तयः ॥३०४॥ पुष्पवर्षं मरुत्पर्षदुपरिष्टात् किरीटिनः । दिवोऽङ्कादमुञ्चत्प्राप्तमानन्दमिव मूर्त्तताम् ॥३०५॥ विलेसुदिवि गीर्वाणदुन्दुभिध्वनयोऽधिकम् । धनंजयधनुर्ध्वानप्रतिध्वानसनाभयः ॥३०६॥ मुदा लोकस्य सर्वस्याप्युल्ललास जयध्वनिः । सूत्रयन् मातृकां देवीं वर्णद्वयमयीमिव ॥३०७॥ आनन्दैकमयं सम्पन्मयं स्फीतयशोमयम् । तदा कुन्त्याश्च पाण्डोश्च बभूव निखिलं जगत् ॥३०८॥
१. 'दृढं' प्रतित्रय । २. बाणः । ३. लक्ष्यम् ।