SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४८] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य राधावेधोपक्रमः ॥ साहङ्कारस्ततस्तारमुज्जगार वृकोदरः ।। एतदत्यद्भुतं कर्म कुर्वाणे कपिकेतने ॥२८३॥ दो तो यस्य कस्यापि शिरःशूलमुदेष्यति । गदेयमगदङ्कारस्-तस्य जागति मामकी ॥२८४।। युग्मम् । पार्थोऽप्यनमयच्चापं समं मानैर्महीभृताम् । निनाय शिञ्जिनीकोटिमात्मना सह धन्विषु ॥२८५॥ तदानीमासदन कान्ति सुहृदां वदनेन्दवः ।। तत्प्रणुन्न इव ध्वान्तो मुखमाशिश्रियविषाम् ॥२८६।। अमुञ्चदङ्करान् कुन्ती मनस्यानन्दकन्दलान । गान्धारी हृदि तु स्वैरमप्रीतिविषवल्लरीम् ॥२८७॥ आसन् युधिष्ठिरादीनां प्रमोदविशदा दृशः । तदा दुर्योधनादीनां पुनर्दोषकषायिताः ॥२८८॥ अभूत् कर्मेदमेतावत्पुरो भवतु देवता ।। इत्याशंसारसाढ़ेजे द्रौपदी विशदां दृशम् ॥२८९॥ पाण्डं च धृतराष्ट्रं च भीष्मं च गुरुरब्रवीत् । अर्जुनस्य भुजौजित्यमितः पश्यत पश्यत ॥२९०॥ शनकैराकृषेर्वत्स ! चापमेतच्चिरन्तनम् । सहिष्यते न ते सारमिति भीमेऽनुशासति ॥२९१।। आसनाद्रभसोत्तालवाचालवदनोदरे । पश्यति द्रुतमुत्थाय पृथिवीपालमण्डले ॥२९२॥ कुतूहलान्मिलन्तीनां सिद्धगन्धर्वयोषिताम् । व्योम्नि वक्रैर्विमानान्तर्लक्षितैः शतचन्द्रिते ॥२९३।। सुहृद्धपुषि रोमाञ्चः प्रस्वेदो द्वेषिवर्मणि । काण्ड: कोदण्डदण्डे च संदधे सव्यसाचिना ॥२९४॥ चतुर्भिः कुलकम् । अथान्तस्तैलकुण्डस्य प्रतिबिम्बवतामधः । जवेन भ्राम्यतां तेषां चक्रकाणामरान्तरे ॥२९५॥ १. प्रत्यञ्चाग्रम् । २. 'न्दलः' प्रतित्रयपाठः । ३. वल्लरी प्रतित्रयपाठः । ४. विवशां दृशाम् विवशां दशाम् इति प्रत्य० । ५. शतचन्द्रवति कृते सति । ६. शरः । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy