SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १४६ ] [ पाण्डवचरित्रमहाकाव्यम् । सुयोधनस्य परिचयः ॥ असौ लोलेक्षणे ! सर्वकर्मीणभुजवैभवान् । कर्मणीह कृतोत्साहान् सुतानपि निषेधति ॥ २५७॥ धृतराष्ट्राङ्गभूर्योधलक्षयोधी सुयोधनः । स एष मातुर्गान्धार्या रोमाञ्चेन सहोत्थितः ॥ २५८॥ यस्यांसशैलमालम्ब्य घनपल्लवितश्रियम् । कुरुवंशः परां काञ्चिदुत्तंसयति सम्पदम् ॥ २५९॥ आकृष्य प्रीतिलुण्टाकीः सुहृच्चेतोनिकेतनात् । योऽसूत्रयद्भियः शत्रुमनःकाराकुटुम्बिनीः ॥२६०॥ केचित्तत्कालमानम्राः क्षणात् केऽपि पलायिताः । नास्यं यस्याभ्यमित्रस्याप्यपश्यन् वैरिणो रणे ॥ २६१॥ त्राणाय शत्रुभिर्यस्य बृहत्कटकशालिनः । उभयेऽपि निषेव्यन्ते महीयांसो महीभुजः ॥२६२॥ दर्पादिष्वासमादातुं नम्रीभूतोऽपि भामिनि ! । हेतोः कुतोऽप्यसौ कामं नमस्यति महाभुजः ॥२६३॥ अन्येऽपि धृतराष्ट्रस्य सुता दुःशासनादयः । दोर्वैभवावधिं वीक्ष्य निषीदन्ति विषादिनः ॥२६४|| एते तु भगदत्ताश्वत्थामभूरिश्रवःशलाः । जयद्रथमहासेनचारुदेष्णादयोऽपि च ॥२६५॥ तथैव तस्थुर्दोःस्थाम निजमालोच्य चेतसि । सतामात्मज्ञता नाम महर्द्धिमहिमास्पदम् ॥ २६६॥ युग्मम् | प्रचेलुञ्चतः पश्य देवि ! भ्रूसंज्ञया हरेः । विस्मयस्मेरराजन्यनेत्रनीराजिताननाः ॥२६७॥ कटाक्षकोटिभिः प्रत्युद्याताः कस्याश्चिदादरात् । स्मरेषव इवोच्चण्डाः पाण्डोः पञ्चापि सूनवः ॥२६८॥ युग्मम् । देवि ! पञ्चभिरप्येतैः कुलं कुरुनरेशितुः । पाण्डवैर्मण्डयाञ्चक्रे शरीरं करणैरिव ॥ २६९॥ १. पर्वताः राजनश्च । २. इन्द्रियैः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy