________________
चतुर्थः सर्गः । द्रौपद्याः चिन्तनम् ॥]
[१४५ अथास्यामिति जल्पाक्यामुन्मीलत्स्वेदमेदुरा । श्यामीभवन्मुखाम्भोजा पाञ्चालीदमचिन्तयत् ॥२४४॥ सूतसूतिरिति ख्यातो जगत्येकधनुर्धरः । अस्मिंश्च रमते हन्त मनो मे न मनागपि ॥२४५।। रतिं त्वेतेऽङ्गजन्मानः पाण्डोस्ताण्डवयन्ति मे । विडम्बयितुमारब्धा तत्कि नामास्मि वेधसा ? ॥२४६।। मया बद्धोऽञ्जलिर्बाढमयं वः कुलदेवताः । रक्षणीयः पतिः पाण्डोरात्मजेभ्यो ममापरः ॥२४७॥ इति पृथ्वीपतेः पुत्रीमन्तश्चिन्तां वितन्वतीम् । व्याजहार प्रतीहारी पुनः श्रोत्रामृतं वचः ॥२४८॥ हेलया चापमारोप्य हठग्रहकुतूहली । राधावेधी न राधेयो जनन्या नामसाम्यतः ॥२४९।। परं त्वत्कुलदेवीनां प्रभावप्रहतौजसः । नहि स्वयंवरक्षोभे कस्यापि प्रभविष्णुता ॥२५०।। बलप्रद्युम्नसाम्बाद्यैः प्रवीरैः परिवारितः । अद्याप्यासीन एवास्ते कृष्णः केनापि हेतुना ॥२५१॥ अन्धसा कंसरूपेण कीनाशं भोजयिष्यता । चाणूराद्याः कृता येन तेऽफलाः फलिकापदे ॥२५२॥ कंसक्षत्रेषु भास्वान् यत्प्रतापः पत्रवल्लरीः । अशोषयत्तथा भूयः प्ररोहन्ति स्म नो यथा ॥२५३॥ द्वैराज्यस्य द्विषन् कञ्चित्स्वदायादमवेक्षितुम् । विवेश हृदि नो कस्य यद्भुजस्तम्भविक्रमः ? ॥२५४।। वैरिनारीदृशो यस्य ददतीवाश्रुकैतवात् । प्रियस्यास्तमुपेतस्य विलासस्य जलाञ्जलिम् ॥२५५।। वक्षोऽङ्कितं द्विषद्दन्तिदन्ताघातकिणार्बुदैः । यस्य श्रीराश्रयदुर्गमिवानेकाऽद्रिदुर्ग्रहम् ॥२५६।।
१. लत्खेद० प्रतित्रय । २. सूतस्य सारथेः सूति: जन्म यस्य सः, सूतपुत्रः । ३. ओदनेन । ४. शाकस्थाने । ५. कंसभार्यासु । ६. चन्दनादिलेपान् । ७. अर्बुदः पर्वत विशेषः, पक्षे घातकिणजन्यः ग्रंथिविशेष: 'फोडलो, फोल्लो' इति भाषाचार। ८. नेकारि प्र० ।