SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 5 10 १३८] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी-देहशोभा ॥ अलक्तकरसस्तस्याः पादयोर्निहितो बभौ । जितैः पङ्केरुहै: शङ्के स्वकान्तिरुपदीकृता ॥१५४॥ तस्याः स्वर्णाभमत्यच्छचन्दनच्छुरितं वपुः । बिभर्ति स्माभ्रकच्छन्नप्रदीपकलिकोपमाम् ॥१५५॥ तस्या बिम्बोष्ठयोर्व्यक्तमलक्तकरसच्छलात् । आदधे रागसर्वस्वनिधानं कुसुमायुधः ॥१५६॥ अरालनीलभ्रूवल्लिप्रतिबिम्बविडम्बिनी । बभौ कपोलयोस्तस्याः कस्तूरीपत्रवल्लरी ॥१५७॥ तस्याः शङ्के दृशौ पुष्पधन्वनः केलिदीर्घिके । लावण्यजलजम्बालमञ्जुलं कज्जलं पुनः ॥१५८॥ तस्याः स्म भासते भाले मृगनाभिललाटिका । कृताक्रान्तिरिव क्रुद्धो विधुबुद्ध्या विधुंतुदः ॥१५९॥ धम्मिल्लो मल्लिदामाङ्कस्तस्या मूर्धन्यधारयत् । मुक्तवैरमिथ:श्लिष्टशशिस्वर्भानुविभ्रमम् ॥१६०॥ असौ विशदकौशेयसंवीतवपुराबभौ । तपस्यासमये गङ्गावीचिश्लिष्टेव पार्वती ॥१६१॥ तस्याश्चकासे माणिक्यकिरीटकिरणोत्करः । उदेष्यत इवानङ्गतरणेररुणोदयः ॥१६२॥ निर्मेलः सम्पदे सद्यः श्रितानामिति नान्यथा । द्विरुक्तिमीयतुस्तस्याः कुण्डले तेन गण्डयोः ॥१६३।। कर्णोत्तंसमणिव्याजादेत्य देवः स्वयं स्मरः । तस्याः कटाक्षविक्षेपनिदेशाकाङ्क्षया स्थितः ॥१६४॥ जगज्जिगीषोः कामस्य तस्या वक्षःस्थलाश्रमे । तपस्यतोऽक्षमालेव भाति स्मैकावलिच्छलात् ॥१६५॥ परितो रत्नकेयूरमरीचिपटलच्छलात् । रागोऽन्तर्मानसं तस्याः प्रविविक्षुरिवैश्यत ॥१६६॥ 15 20 25 १. अराला-वक्रा । २. पङ्क । ३. कस्तूरितिलकम् । ४. स्वर्भानुः राहुः । ५. अभ्रकः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy