________________
चतुर्थः सर्गः । द्रौपदीस्वयंवरः ॥]
[१३५ रेजुर्भमन्ति चत्वारि वामं चत्वारि दक्षिणम् । रत्नचक्राणि नक्षत्रचक्राणीवास्य मूर्धनि ॥११५॥ भाति स्म रत्नपाञ्चाली मूर्ति तेषामवाङ्मुखी । तद्भ्रमोग्रजवालोककौतुकेनेव निश्चला ॥११६॥ अधःस्तम्भस्य दम्भोलिसारैरिव विनिर्मितम् । राजाऽमुश्चत् क्रमायातं देवताऽधिष्ठितं धनुः ॥११७॥ अथ मौहूर्तिकादिष्टे दृष्टे पूर्णशुभग्रहै: ।. उच्चस्थैश्चाऽऽस्थिते लग्ने प्रीतिनिर्मग्नमानसः ॥११८॥ पञ्चालपृथिवीपालः सायमर्वाचि वासरे । प्रातराहूय तान्दूतान्प्राहिणोत्प्रतिपार्थिवम् ॥११९॥ युग्मम् । तदा रविरलङ्कर्तुमिव द्रुपदनन्दिनीम् । रत्नसारमुपादातुमाशु रत्नाकरेऽविशत् ॥१२०।। वयं देवीयोवास्तव्याः स्वयंवरकुतूहलम् । न द्रक्ष्याम इतीवाशास्तमःश्यामास्यतां दधुः ॥१२१॥ कला काऽप्यस्ति भूपानां द्रौपदीप्राप्तिकारणम् । इति ज्ञातुमना मन्ये कलानांनिधिरुद्ययौ ॥१२२॥ पाञ्चालीनयनौपम्यमहमेव लभे परम् । इत्यवश्यमिदं हर्षादुन्मिमील महोत्पलम् ॥१२३॥ पाञ्चालीस्पृहयालूनां भूभुजामथ मन्मथः । मुमोच मार्गणश्रेणिमीर्ण्ययेव समं हृदि ॥१२४॥ अङ्गेष्वनल्पसङ्कल्पसूनुसन्तापशान्तये । रचयाञ्चक्रिरे केचिज्जाह्नवीमसरोरुहाम् ॥१२५॥ द्रौपदीवदनाम्भोजप्रतिस्पर्धितया स्फुटम् । अभूत्केषाञ्चिदानन्दन्निन्दुरप्यास्पदं रुषाम् ॥१२६॥ प्रेडोलयद्भिरत्युष्णनिःश्वासपवनोर्मिभिः । शातितः शीतिमा कैश्चित् कदलीदलमारुतैः ॥१२७॥
१. प्रथमे । २. प्रातराहूतयेदूतान् इति प्रत्यन्तर० । ३. दुरतरनिवासिन्यः । ४. सङ्कल्पसूनुः कामः । ५. उच्छलद्भिः । ६. नाशितः ध्वस्त इत्यर्थः ।